________________
१२१
सरस्वती-सम्बन्धी कुछ पौराणिक पाठच गङ्गायाः पपया साधं प्रीतिश्चापि सुसंमता। क्षमां चकार तेनेदं विपरीतं हरिप्रिया ॥ २४ ॥ किं जीवनेन मेऽत्रैव दुर्भगायाश्च साम्प्रतम् । निष्फलं नीवनं तस्या या पत्युः प्रेमान्वितम् ॥ २५ ॥
सरस्वतीवचः श्रुत्वा दृष्ट्वा तां कोपसयुताम् । मनसा तु समालोच्य स जगाम बहिः सभा ॥ २७ ॥ गते नारायणे गङ्गामवोचन्निभयं रुषा। वागधिष्ठातृदेवी सा- वाक्यं श्रवणदुःखम् ॥ २८ ॥ हे निर्लज्जे सकामे त्वं स्वामिगर्व करोषि किम् । अधिकं स्वामिसौभाग्यं विज्ञापयितुम् ॥ २६ ॥ मानहानि करिष्यामि तवाद्य हरिसन्निधौ । किं करिष्यति ते कान्तो मम वै कान्तवल्लभः ॥ ३०॥ इत्येवमुक्त्वा गङ्गाया जिधक्षु शपमुद्यताम् । वारयामास तां पद्मा मध्यदेशस्थिता सती ॥ ३१॥ शशाप वाणी तां पद्मां महाकोपवती सती। वृक्षरूपा सरिद्रूपा भविष्यसि न संशयः ॥ ३२॥ विपरीतं यतो दृष्ट्वा किञ्चिन्नो वक्तुमर्हसि । सन्तिष्ठसि सभामध्ये यया वृक्षे यथा सरित् ।। ३३ ।। शापं श्रुत्वा च सा देवी न शशाप चुकोप न । तत्रैव दुःखिता तस्थौ वाणी धृत्वा करेण च ॥ ३४ ॥ अत्युद्धतां च तां दृष्ट्वा कोपप्रस्फुरितानना । उवाच गङ्गा तां देवीं पद्मां पद्मविलोचना ।। ३५ ।। त्वमुत्सृज महोग्रां तां पद्म कि मे करिष्यति । वाग्दुष्टा वागधिष्ठात्री देवीयं कलहप्रिया ।। ३६ ।। यावती योग्यताऽस्याश्च यावती शक्तिरेव वा । तथा करोतु वादं च मया साधं सुदुर्मुखा ॥ ३७ ।। स्वब यन्मम बलं विज्ञापयितुमहतु। जानन्तु सर्वे ह्य भयोः प्रभावं विक्रमं सति ॥ ३८ ॥ इत्युक्त्वा सा देवी वाण्य-शापं ददाविति । सरित्स्वरूपा भवतु सा या त्वामशपद्रुषा ॥ ३६ । मधोमत्यं सो प्रयातु सन्ति यत्रैव पापिनः। कलौ तेषां च पापांशं लमिष्यति न संशयः ॥ ४० ॥