________________
गतधना अपि हि त्वदनुग्रहात् कलितकोमल - वाक्यसुधोर्मयः । चकितबालकुरङ्गविलोचना जनमनांसि हरिन्तितरां नराः ||७|| करसरोरुह खेलनचच्चला तव विभाति वरा जपमालिका । श्रुतिपयोनिधिमध्यविकस्वरोज्जवल - तरङ्गकलाग्रह साग्रहा ||८|| द्विरदके सरिमारिभुजङ्गमासहनतस्करारजरुजां भयम् । तव गुणावलिगानतरङ्गिणां न भवनां भवति श्रुतदेवते ||९|| ॐ ह्रीं क्लीं ब्लू ततः श्रीं तदनु हसकलहीं अथो ऐ नमोऽन्ते, लक्षं साक्षाज्जपेद् यः कर समविधिना सत्तपा ब्रह्मचारी | निर्यान्तां चन्द्रबिम्बात् कलयतिमनसा त्वां जगच्चन्द्रिकाभां सोऽत्यर्थवह्निकुण्डे विहितधुतहुतिः स्यद्दशांशेन विद्वान् ||१०||
शार्दूल
रे रे लक्षणकाव्यनाटककथाचम्पूसमालोकने क्वायासं वितनोषि बालिश मुधा किं नम्रवक्त्राम्बुजः । भक्त्याराधय मन्त्रराजसहितां दिव्यप्रभां भारतीं येन त्वं कवितावितान सविताद्वैतप्रबुद्धाय से || ११||
-
चंचच्चन्द्रमुखी प्रसिद्ध महिमा स्वाच्छान्धराज्यप्रदाऽनायासेन सुरासुरेश्वरगणैरभ्यर्चिता भक्ति: ।
देवी संस्तुतवैभवा मलयजालेपाङ्गरङ्गयुतिः सा मां पातु सरस्वती भगवती त्रैलोक्यसज्जीवनी ||१२|| स्तवनमेतदनेकगुणान्वितं पठति यो भविक: प्रमनाः प्रगे स सहसा मधुरैर्वचनामृतैर्नृपगणानपि रज्जयति स्फुटम् ||१३||
। इति सरस्वतीस्तवः सम्पूर्ण: ।
ॐ ह्रीं क्लीं ब्लूं श्रीं हसकल ह्रीं ऐ नमः ।
પ્રાનસાધના અને સરસ્વતી વંદના
૬૭