________________
सटीकजैनतर्कभाषायां तन्नेति । उक्तमतं न समीचीनमित्यर्थः । तत्र हेतुमाह-क्वचिदिति । यत्राऽसद्भूतार्थविशेषापनयनम्, यत्र च सद्भूतार्थानुगमनम्, यत्र च तदुभयं-सर्वत्र तद्द्वारा जायमानोऽपाय: 'स्थाणुरेवाऽय'मिति निश्चयरूप एवेति तस्याऽपायत्वमेव । न तु अन्यविशेषव्यतिरेकावधारणस्याऽपायत्वं सद्भूतान्वयधर्मावधारणस्य च धारणात्वमिति तयोर्भेदाकलनं युक्तं-तथा सत्युक्तप्रकाराभ्यां व्यतिरिक्ता स्मृतिरपि ज्ञानान्तरं स्यादिति मतेः पञ्चप्रकारत्वापत्त्या चतुर्विधत्वं व्याहन्येतेति सम्मुखीनोऽर्थः । अक्षरार्थस्तु
क्वचित् = यत्र विषये प्रमातुः 'नेह शिरःकण्डूयनादयः पुरुषधर्मा दृश्यन्ते' इत्यसद्भूतार्थविशेषव्यतिरेकालोचनं तत्र, तदन्यव्यतिरेकपरामर्शात् = पुरोवर्तिस्थाणुगतधर्मान्याभावावधारणाद्, भवतो = जायमानस्य, अपायस्य = 'स्थाणुरेवाऽय'मिति ज्ञानस्य; क्वचित् = यत्र विषये प्रमातुः 'वल्ल्युत्सर्पण-वयोनिलयनादिकमत्र दृश्यते' इति सद्भूतार्थविशेषपर्यालोचनं तत्र विषये, अन्वयधर्मसमनुगमात् = पुरोवर्तिस्थाण्वनुगतधर्मस्य निश्चयनाद्, भवतोऽपायस्येत्यस्योक्तार्थस्य सम्बन्धः; क्वचिच्च = यत्र च विषये प्रमातुः असद्भूतार्थविशेष-व्यतिरेकालोचनं सद्भूतार्थविशेषपर्यालोचनं च तत्र, उभाभ्यामपि = तदन्यव्यतिरेकपरामर्शान्वयधर्मसमनुगमाभ्यामपि, भवतोऽपायस्येत्युक्तार्थक एव सम्बध्यते ।
निश्चयैकरूपेण = निश्चयत्वलक्षणापायसामान्यधर्मेण, भेदाभावाद् = विशेषाभावाद् । अन्यथा = पूर्वोक्तरीत्याऽपायधारणयोर्भेदेन स्वरूपनिर्वचने । स्मृतेराधिक्येनेति । व्यतिरेकावधारणलक्षणाया अविच्युतेः स्वसमानकालभाविनि व्यतिरेकावधारणलक्षणेऽपायेऽन्तर्भूतत्वाद्, अन्वयावधारणलक्षणायाः तस्या अन्वयावधारणलक्षणायां स्वसमानकालीनायां धारणायामन्तर्भूतत्वाद्, वासनायाः तु स्मृतावेवाऽन्तर्भावयितुं शक्यत्वात्, स्मृतेस्तु न कुत्राप्यन्तर्भाव इत्येवमाधिक्येनेत्यर्थः । मतेः पञ्चभेदत्वप्रसङ्गादिति । अवग्रहेहापायधारणारूपाः चत्वारो भेदा मतेः त्वयाऽभ्युपगता एव, स्मृतिस्तु पञ्चमो भेद इत्येवं मतिज्ञानस्य पञ्चविधत्वप्रसङ्गादित्यर्थः ।
ननूक्तदिशा सद्भतार्थविशेषावधारणस्याऽस्मदभिमतं धारणात्वं नाऽङ्गीक्रियते तदा भवदभिमतं मतेः चातुर्विध्यं न स्याद्-मत्युपयोगोपरमे कालान्तरे जायमानायाः स्मृतेर्मत्यंशत्वाभावाद्, वासनाया अपि मत्युपयोगोपरमे जायमानायाः स्मृतावेवाऽन्तर्भावाद्, उपयोग
आभिनिबोधिकज्ञानस्य । तथाहि-अवग्रहहापायधारणालक्षणाश्चत्वारो भेदास्तावत् त्वयैव पूरिताः, पञ्चमस्तु भेदः स्मृतिलक्षणः प्राप्नोति, अविच्युतेः स्वसमानकालभाविन्यपाये अन्तर्भूतत्वात्, वासनायास्तु स्मृत्यन्तर्गतत्वेन विवक्षितत्वात्, स्मृतेरनन्यशरणत्वात् मतेः पञ्चमो भेदः प्रसज्यते ।"विशेषा० बृ० गा० १८७ ।