________________
धारणा
सातत्य-लक्षणाविच्युतेरपाये एवाऽन्तर्भावाच्चेति त्रैविध्यमेव मतिज्ञानस्य भवेत् । कालान्तरे जायमानायाः स्मृतेर्मतित्वाभ्युपगमेऽपि वाऽस्मन्मतेऽन्वयावधारणरूपायां धारणायामन्तर्भावाद् नाऽस्मन्मते पञ्चविधत्वं मतेरापतत्यपीति शङ्कते
अथ नास्त्येव भवदभिमता धारणेति भेदचतुष्टयव्याघातः । तथाहि-उपयोगोपरमे का नाम धारणा ? उपयोगसातत्यलक्षणाऽविच्युतिश्चाऽपायाद् नातिरिच्यते । या च घटाधुपयोगोपरमे सङ्ख्येयमसङ्ख्येयं वा कालं वासनाऽभ्युपगम्यते, या च 'तदेव' इतिलक्षणा स्मृतिः, सा मत्यंशरूपा धारणा न भवति-मत्युपयोगस्य प्रागेवोपरतत्वात् । कालान्तरे जायमानोपयोगेऽप्यन्वयमुख्य धारणायां स्मृत्यन्तर्भावादिति चेद्,
भवदभिमता = स एव दृढतमावस्थापन्नो धारणेति भवल्लक्षणलक्षिता । भेदचतुष्टयव्याघातमेव भावयति-तथाहीति । उपयोगोपरमे = मत्युपयोगोपरमे । ननूपयोगानुपरमे एवाऽविच्युतिलक्षणा धारणेष्यते सा मतिः स्यादित्यत आह-उपयोगेति । तथा च तस्या अपायरूपत्वाद् न तामादाय मतेः चातुर्विध्यमिति भावः । मत्युपयोगोपरमे जायमानस्य न मतित्वमित्यभिसन्धाय कालान्तरे जायमानाया वासनायाः स्मृतेश्च मत्युपयोगत्वमेव न सम्भवतीति न वासनां स्मृति वोपादाय मतेश्चातुर्विध्यसङ्घटना युक्तिमतीत्याह-या चेति । एवमपि मतित्वाभ्युपगमे, अस्मन्मतेऽपि न स्मृत्याधिक्यनिबन्धनस्य मतिज्ञाने पञ्चविधत्वस्य
'अथ नास्त्येव' "ननु यथैव मया व्याख्यायते-व्यतिरेकमुखेन निश्चयोऽपायः, अन्वयमुखेन तु धारणा-इत्येवमेव चतुर्विधा मतियुक्तितो घटते । अन्यथा तु व्याख्यायमानेअन्वयव्यतिरेकयोईयोरप्यपायत्वेऽभ्युपगम्यमाने-अवग्रहेहापायभेदतस्त्रिभेदा मतिर्भवति, न पुनश्चतुर्धा, धारणाया अघटमानत्वात् ।"-विशेषा० बृ० गा० १८७ ।
_ 'तथाहि उपयोगोपरमे'-"कथं पुनर्धारणाऽभावः ? इह तावत् निश्चयोऽपायमुखेन घटदिके वस्तुनि अवग्रहेहापायरूपतया अन्तर्मुहूर्त्तप्रमाण एव उपयोगो जायते । तत्र च अपाये जाते या उपयोगसातत्यलक्षणाऽविच्युतिर्भवताऽभ्युपगम्यते सा अपाय एव अन्तर्भूता इति न ततो व्यतिरिक्ता । या तु तस्मिन् घटाधुपयोगे उपरते सति सङ्ख्येयमसङ्ख्येयं वा कालं वासनाऽभ्युपगम्यते 'इदं तदेव' इतिलक्षणा स्मृतिश्चाऽङ्गीक्रियते सा मत्यंशरूपा धारणा न भवतिमत्युपयोगस्य प्रागेवोपरतत्वात् । कालान्तरे पुनर्जायमानोपयोगेऽपि या अन्वयमुखोपजायमानाऽवधारणरूपा धारणा मया इष्यते सा यतोऽपाय एव भवताऽभ्युपगम्यते ततस्तत्रापि नास्ति धृतिः धारणा, तस्मादुपयोगकाले अन्वयमुखावधारणरूपाया धारणायाः त्वयाऽनभ्युपगमात् उपयोगोपरमे च मत्युपयोगाभावात् तदंशरूपाया धारणायाः अघटमानकत्वात् त्रिधैव भवदभिप्रायेण मतिः प्राप्नोति न चतुर्धा इति पूर्वपक्षाभिप्रायः ।"-विशेषा० बृ० गा० १८८-९ ।