________________
७०
सटीकजैनतर्कभाषायां प्रसङ्गः-अन्वयावधारणरूपायां धारणायां तस्या अन्तर्भावसम्भवादित्याह-कालान्तर इति । भवतां तु अन्वयावधारणस्याऽप्यपायत्वेन, कालान्तरे जायमाने ज्ञाने मतित्वाभ्युपगमेऽपि, स्मृतेरपायत्वमेव भवितुमर्हतीत्येवमपि त्रैविध्यमेव मतेः प्रसज्यते इति शङ्कितुYढाभिप्रायः ।
कालान्तरे जायमानायाः स्मृतेः, वस्तुनिश्चयमात्रफलकादपायात्, पूर्वापरदर्शनानुसन्धानफलकत्वेन विभिन्नकालीनत्वेन चाऽऽधिक्यं निर्विवादमेव । सा च स्मृतिर्यस्मात् पूर्वोपलब्धवस्त्वाहितसंस्कारस्वरूपाद् वासनाविशेषात् प्रादुर्भवति, स वासनाविशेषोऽपि पूर्वापायाद् विभिन्नकालीनतया भिन्न एवेति त्रिष्वप्येषु धारणात्वमिति चतुर्धा मतिविभजनं नाऽसङ्गतमिति समाधत्ते
न, अपायप्रवृत्त्यनन्तरं क्वचिदन्तर्मुहूर्तं यावदपायधाराप्रवृत्तिदर्शनादविच्युतेः, पूर्वापरदर्शनानुसन्धानस्य 'तदेवेदम्' इति स्मृत्याख्यस्य प्राच्यापायपरिणामस्य, तदाधायकसंस्कारलक्षणाया वासनायाश्चाऽपायाभ्यधिकत्वात् ।
अविच्यतेरित्यस्य अपायाभ्यधिकत्वादित्यनेन सम्बन्धः । पूर्वापरेति । तत्ता पूर्वदर्शनविषयता, इदन्ता वर्त्तमानदर्शनविषयता, ताभ्यां पूर्वापरदर्शनविषयाभेदमवगाहमानायाः 'तदेवेद'मिति स्मृतेः पूर्वापरदर्शनानुसन्धानत्वम्-इत्येतावताऽपायात् स्मृतेः फलभेद उपदर्शितः । पूर्वापायस्य कालान्तरे संस्कारात्मनाऽनुस्यूतस्य स्मृतिरूपेण परिणमनात् परिणामिपरिणामभावादनयोर्भेद इत्यावेदनायाऽऽह-प्राच्येति । अस्याऽप्यपायाभ्यधिकत्वादित्यनेन सम्बन्धः । तदाधायकेति । प्राच्यापायपरिणामस्मृत्याधायकेत्यर्थः । तदाधायकत्वं तदुत्पादकत्वम्, अनेन स्मृतेः कारणीभूताया वासनाया न स्मृतावन्तर्भाव इत्यप्यावेदितम् ।
___ 'न, अपाय'-"अत्रोत्तरमाह-कालान्तरे या स्मृतिरूपा बुद्धिरुपजायते, नन्विह सा पूर्वप्रवृत्तादपायात् निर्विवादमभ्यधिकैव-पूर्वप्रवृत्तापायकाले तस्या अभावात् साम्प्रतापायस्य तु वस्तुनिश्चयमात्रफलत्वेन पूर्वापरदर्शनानुसन्धानायोगात् । यस्माच्च वासनाविशेषात् पूर्वोपलब्धवस्त्वाहितसंस्कारलक्षणात्-'इदं तदेव' इतिलक्षणा स्मृतिर्भवति साऽपि वासनाऽपायदभ्यधिका इति । या च अपायादनन्तरमविच्युतिः प्रवर्तते साऽपि । इदमुक्तं भवति-यस्मिन् समये 'स्थाणुरेवाऽयम्' इत्यादिनिश्चयस्वरूपोऽपायः प्रवृत्तः ततः समयादूर्ध्वमपि 'स्थाणुरेवाऽयं स्थाणुरेवायम्' इति अविच्युत्या या अन्तर्मुहूर्तं क्वचिदपायप्रवृत्तिः सापि अपायाविच्युतिः प्रथमप्रवृत्तापायादभ्यधिका । एवमविच्युति-वासना-स्मृतिरूपा धारणा त्रिधा सिद्धा।"-विशेषा० बृ० गा० १८८-९।
१. स्मृतिजन्यप्रत्यभिज्ञाने स्मृतित्वोपचारादिदं कथनमिति भाति ।