________________
७१
धारणायां प्रामाण्योपपादनम्
अविच्युतिस्मृत्योर्गृहीतग्राहित्वेनाऽबाधितागृहीतग्राहिज्ञानत्वलक्षणप्रामाण्याभावे प्रमाणविशेष-मतिज्ञानभेदत्वासम्भवाद्, वासनायाश्च विकल्पत्रयकवलितत्वाद् नोक्तत्रयस्य मतिज्ञानभेद-धारणारूपत्वमिति न मतिज्ञानस्य चतुर्विधत्वमिति शङ्कते
नन्वविच्युतिस्मृतिलक्षणौ ज्ञानभेदौ गृहीतग्राहित्वाद् न प्रमाणम् । संस्कारश्च किं स्मृतिज्ञानावरणक्षयोपशमो वा, तज्ज्ञानजननशक्तिर्वा, तद्वस्तुविकल्पो वेति त्रयी गतिः । तत्र-आद्यपक्षद्वयमयुक्तं-ज्ञानरूपत्वाभावात्, तद्भेदानां चेह विचार्यत्वात् । तृतीयपक्षोऽप्ययुक्त एव-सङ्ख्येयमसङ्ख्येयं वा कालं वासनाया इष्टत्वाद्, एतावन्तं च कालं वस्तुविकल्पायोगादिति न काऽपि धारणा घटते इति चे;
तज्ज्ञानेति । स्मृतिज्ञानेत्यर्थः । तद्ववस्तुविकल्प इति । अपायविषयीभूतवस्तुनो विकल्पात्मकज्ञानमित्यर्थः । तत्र = उक्तविकल्पत्रये आद्यपक्षद्वयं = स्मृतिज्ञानावरणक्षयोपशमः संस्कार इति प्रथमः पक्षः, तज्ज्ञानजननशक्तिः संस्कार इति द्वितीयः पक्षश्च । अयुक्तत्वे हेतुमाह-ज्ञानरूपत्वाभावादिति । स्मृतिज्ञानावरणक्षयोपशम-स्मृतिज्ञानजननशक्त्योर्ज्ञानस्वरूपत्वासम्भवात् तद्विशेष-मतिज्ञानविशेष-धारणत्वासम्भवादित्यर्थः । तद्भेदानां = ज्ञानाविशेषाणाम् । तृतीयपक्षोऽपि = तद्वस्तुविकल्पः संस्कार इति कल्पोऽपि । वस्तुविकल्पापेक्षया वासनालक्षणसंस्कारस्याऽधिककालस्थायित्वेन तयोरैक्यासम्भवादित्याहसङ्ख्येयमिति । एतावन्तं च कालं = वासनास्थित्याश्रयतया सम्मतं यावत्कालम् ।
गृहीतग्राहित्वादविच्युतेरप्रामाण्यं तदा स्याद् यदि गृहीतमात्रग्राहिण्येव सा भवेद्, न चैवम्, पूर्वकालविशिष्टं हि वस्तु अपायेन गृह्यते, उत्तरकालविशिष्टं चाऽविच्युत्या । एवं स्पष्टस्पष्टतरस्पष्टतमलक्षणविभिन्नधर्मयोगिवासनाजनकत्वेनाऽविच्युतेरन्यान्यवस्तुग्राहित्वमवसीयते । स्मृतिस्तु प्रागननुभूतवस्त्वैक्यग्राहिणी सुतरामगृहीतविषया । एवमगृहीतग्राहित्वात् तयोः प्रामाण्यमनाबाधमेव । वासना तु विकल्परूपा नाऽभ्युपगम्यते एव, किन्तु स्मृतिज्ञानावरणक्षयोपशमरूपा तज्ज्ञानजननशक्तिरूपा वा सा । कारणे कार्योपचारमाश्रित्य स्मृतिज्ञानजनिकायां तस्यां ज्ञानत्वमुपचर्यते । इत्यविच्युत्यादित्रयरूपाया धारणायाः सम्भवाद् मतिज्ञानस्य चतुर्विधत्वं
'नन्वविच्युति०'-"नन्वविच्युतिस्मृतिलक्षणौ ज्ञानभेदौ गृहीतग्राहित्वान्न प्रमाणम् । वासना तु किंरूपा ? इति वाच्यम् । संस्काररूपेति चेत्, कोऽयं संस्कार:-स्मृतिज्ञानावरणक्षयोपशमो वा, तज्ज्ञानजननशक्तिर्वा, तद्वस्तुविकल्पो वा ? इति त्रयी गतिः । तत्राऽऽद्यपक्षद्वयमयुक्तम्ज्ञानरूपत्वाभावात् । तृतीयपक्षोप्ययुक्त एव-सङ्ख्येयमसङ्ख्येयं वा कालं वासनाया इष्टत्वात्, एतावन्तं च कालं तद्वस्तुविकल्पायोगात् । तदेवमविच्युति-स्मृति-वासनारूपायास्त्रिविधाया अपि धारणाया अघटमानत्वात् त्रिधैव मतिः प्राप्नोति, न चतुर्धा ।"-विशेषा० बृ० गा० १८९ ।