________________
७२
सटीकजैनतर्कभाषायां सुयुक्तमेवेति समाधत्ते
न, स्पष्टस्पष्टतरस्पष्टतमभिन्नधर्मकवासनाजनकत्वेन अन्यान्यवस्तुग्राहित्वादविच्युतेः, प्रागननुभूतवस्त्वेकत्वग्राहित्वाच्च स्मृतेः, अगृहीतग्राहित्वात्; स्मृतिज्ञानावरणक्षयोपशमरूपायाः तद्विज्ञानजननशक्तिरूपायाश्च वासनायाः स्वयमज्ञानरूपत्वेऽपि कारणे कार्योपचारेण ज्ञानभेदाभिधानाविरोधादिति । - .
अवग्रहादीनां चतुर्णामुत्तरोत्तरं प्रति पूर्वपूर्वस्य कारणत्वादवग्रहानन्तरमीहा, तदनन्तरमपाय: तदनन्तरं धारणेति क्रम एव । न तु व्युत्क्रमेणैतेषामुत्पत्तिः । यत्राऽवग्रहस्य सद्भावः तत्रेहादीनामप्यवश्यमेव, न तु कस्यचिद् भावः कस्यचिच्चाऽभाव इति दर्शयति
एते चाऽवग्रहादयो नोत्क्रमव्यतिक्रमाभ्यां न्यूनत्वेन चोत्पद्यन्ते-ज्ञेयस्येत्थमेव ज्ञानजननस्वाभाव्यात् ।
'नः स्पष्ट०'-"अत्रोच्यते-यत् तावत् गृहीतग्राहित्वादविच्युतेरप्रामाण्यमुच्यते, तदयुक्तम्, गृहीतग्राहित्वलक्षणस्य हेतोरसिद्धत्वात्, अन्यकालविशिष्टं हि वस्तु प्रथमप्रवृत्तापायेन गृह्यते, अपरकालविशिष्टं च द्वितीयादिवारा प्रवृत्तापायेन । एवं भिन्नधर्मकवासनाजनकत्वादप्यविच्युतिप्रवृत्तद्वितीयाद्यपायविषयं वस्तु भिन्नधर्मकमेव, इति कथमविच्युतेर्गृहीतग्राहिता ? स्मृतिरपि पूर्वोत्तरदर्शनद्वयानधिगतं वस्त्वेकत्वं गृह्णाना न गृहीतग्राहिणी । किञ्च, स्पष्ट-स्पष्टतरस्पष्टतमवासनापि स्मृतिविज्ञानावरणकर्मक्षयोपशमरूपा तद्विज्ञानजननशक्तिरूपा चेष्यते, सा च यद्यपि स्वयं ज्ञानरूपा न भवति तथापि पूर्वप्रवृत्ताविच्युतिलक्षणज्ञानकार्यत्वात् उत्तरकालभाविस्मृतिरूपज्ञानकारणत्वाच्च उपचारतो ज्ञानरूपाऽभ्युपगम्यते । तद्वस्तुविकल्पपक्षस्तु अनभ्युपगमादेव निरस्तः । तस्माद-विच्युति-स्मृति-वासनारूपाया धारणायाः स्थितत्वात् न मतेस्त्रैविध्यम्, किन्तु चतुर्धा सेति स्थितम् ।"-विशेषा० बृ० गा० १८९ ।
___ 'एते च अवग्रहा'-"ननु एते अवग्रहादय उत्क्रमेण, व्यतिक्रमेण वा किमिति न भवन्ति, यद्वा ईहादयस्त्रयः, द्वौ, एको वा किं नाऽभ्युपगम्यन्ते, यावत् सर्वेऽप्यभ्युपगम्यन्ते ? इत्याशङ्क्याऽऽह-तत्र पश्चानुपूर्वीभवनमुत्क्रमः अनानुपूर्वीभवनं त्वतिक्रमः, कदाचिदवग्रहमतिक्रम्येहा, तामप्यतिलद्ध्याऽपाय:, तमपि अतिवृत्य धारणेति-एवमनानुपूर्वीरूपोऽतिक्रमः । एताभ्यामुत्क्रमव्यतिक्रमाभ्यां तावदवग्रहादिभिर्वस्तुस्वरूपं नाऽवगम्यते । तथा एषां मध्ये एकस्याप्यन्यतरस्य वैकल्ये न वस्तुस्वभावावबोधः, ततः सर्वेऽप्यमी एष्टव्याः, न त्वेकः, द्वौ, त्रयो वा ।"-विशेषा० बृ० गा० २९५ ।
"यस्मादवग्रहेणाऽगृहीतं वस्तु नेह्यते-ईहाया विचाररूपत्वात्, अगृहीते च वस्तुनि निरास्पदत्वेन विचारायोगादिति अनेन कारणेनाऽऽदाववग्रहं निर्दिश्य पश्चादीहा निर्दिष्टा । न