________________
धारणास्वरूपचर्चा
'असद्भूतार्थविशेषव्यतिरेकावधारणमपायः, सद्भूतार्थविशेषावधारणं च धारणा-इत्याहुः,
केचित्त्वित्यस्य आहुरित्यनेनाऽन्वयः । अपनयनमित्यादि अनुसारिणइत्यन्तं केचिदित्यस्य विशेषणम् । अपनयनमपाय इति व्युत्पत्त्याश्रयणेन योऽर्थः पर्यवसितः तमाह-असद्भूतेति। 'अयं स्थाणु'रिति ज्ञाने 'नाऽयं पुरुष' इति ज्ञानमपायः, तत्रोक्तलक्षणसङ्गमना-सन् = स्थाण्वादिरर्थः, तदन्यः पुरुषादिरर्थोऽसद्भूतोऽर्थः, तस्य ये विशेषाः शिरःकण्डूयनचलनस्पन्दनादयः, तेषां पुरोवर्तिनि सद्भूते स्थाण्वादिरूपेऽर्थे यो व्यतिरेकः = अभावः, तस्याऽवधारणं = निर्णयः = 'नाऽयं पुरुष' इति ज्ञानम्, तदेवाऽसद्भूतार्थविशेषापनोदनक्षमत्वेन अपाय इत्यर्थः ।
तत्रैव धरणं च धारणेति व्युत्पत्त्यर्थावलम्बनेन यद् धारणास्वरूपं पर्यवसितं तदुपदर्शयति-सद्भूतेति । अनेन लक्षणेन 'स्थाणुरेवाऽय'मिति ज्ञानं धारणेति ज्ञायते । लक्षणसमन्वयः-सद्भूतोऽर्थः पुरोवर्तिनि देशे विद्यमानः स्थाण्वादिः, तस्य विशेषः स्थाणुत्वादिरसाधारणो धर्मः, तस्याऽवधारणं 'स्थाणुरेवाऽय'मिति ज्ञानं धारणेत्यर्थः ।
तन्न, क्वचित् तदन्यव्यतिरेकपरामर्शात्, क्वचिदन्वयधर्मसमनुगमात्, क्वचिच्चोभाभ्यामपि भवतोऽपायस्य निश्चयैकरूपेण भेदाभावाद्, अन्यथा स्मृतेराधिक्येन मतेः पञ्चभेदत्वप्रसङ्गात् । पुरुषादिः, तद्विशेषाः शिरःकण्डूयनचलनस्पन्दनादयः, तेषां पुरोवर्तिनि सद्भूतेऽर्थे अपनयनं निषेधनं तदन्यविशेषापनयनं तदेव तन्मात्रम् अपायमिच्छन्ति केचन अपायनमपनयनमपाय इति व्युत्पत्त्यर्थविभ्रमितमनस्काः । अवधारणं धारणा इति च व्युत्पत्त्यर्थभ्रमितास्ते धारणां ब्रुवते । किं तत् ? सद्भूतविशेषावधारणम्-सद्भूतस्तत्र विवक्षितप्रदेशे विद्यमानः स्थाण्वादिरर्थविशेषस्तस्य 'स्थाणुरेवाऽयम्' इत्यवधारणम् ।"-विशेषा० बृ० गा० १८५ ।
'तन्न'-"तदेतद् दूषयितुमाह-कस्यचित् प्रतिपत्तुः तदन्यव्यतिरेकमात्रादवगमनं निश्चयो भवति, तद्यथा-यतो नेह शिरःकण्डूयनादयः पुरुषधर्मा दृश्यन्ते ततः स्थाणुरेवाऽयमिति । कस्यापि सद्भूतसमन्वयतः यथा स्थाणुरेवाऽयं वल्ल्युत्सर्पणवयोनिलयनादिधर्माणामिहाऽन्वयादिति । कस्यचित् पुनः तदुभयाद् अन्वयव्यतिरेकोभयात् तत्र भूतेऽर्थेऽवगमनं भवेत्, तद्यथा यस्मात् पुरुषधर्मा शिरःकण्डूयनादयोऽत्र न-दृश्यन्ते चल्ल्युत्सर्पणादयस्तु स्थाणुधर्माः समीक्ष्यन्ते तस्मात् स्थाणुरेवाऽयमिति । नचैवमन्वयात् व्यतिरेकात् उभयाद्वा निश्चये जायमाने कश्चिद्दोषः । पव्याख्याने तु वक्ष्यमाणन्यायेन दोषः ।"-विशेषा० बृ० गा० १८६ ।
_ 'अन्यथा स्मृतेः'-"यस्माद् व्यतिरेकाद् अन्वयादुभयाद्वा भूतार्थविशेषावधारणं कुर्वतो योऽध्यवसायः स सर्वोऽपि अपायः न तु सद्भूतार्थविशेषावधारणं धारणा इति । व्यतिरेकोऽपायः अन्वयस्तु धारणा इत्येवं मतिज्ञानतृतीयभेदस्य अपायस्य भेदे अभ्युपगम्यमाने पञ्च भेदा भवन्ति