________________
सटीकजैनतर्कभाषायां वासनाया लक्षणं संभवति, तथापि न्यायमते क्रियाजनकवेग-स्थितिस्थापकसंस्कारयोरपि संस्कारत्वात् तव्यावृत्तये अपायाहित इति । अवायात्मकज्ञानस्यैवाऽपाय इति नामान्तरम्, तथा च अपायजन्यः स्मृतिहेतुर्यो भावनाख्यः संस्कारः स वासनेत्यर्थः ।
यद्यपि किञ्चित्कालं सातत्येनाऽनुवर्तमानस्याऽपायस्यैवाऽविच्युतिलक्षणधारणारूपतया, तस्य स्वावरणकर्मक्षयोपशमेन स्वाधारजीवगतेन कालान्तरे उद्बोधकसमवहितेन भावनाख्यसंस्कारात्मतामुपगतेन तदेवमित्याकारस्मृतिरूपेण यद् उन्मीलनं तस्य स्मृतिरूपेण, तत्पूर्वभाविन्या अपायान्तरभाविन्याश्च वासनाया तयोर्मध्ये एव निरूपणमुचितमिति द्वितीयभेदतया वासनायाः तृतीयभेदतया स्मृतेरभिधानं न्याय्यम; तथापि अविच्युतिलक्षणधारणास्मृत्योः स्वसंवेदनसिद्धता, स्मृति प्रति अविच्युतिलक्षणधारणाया एवाऽन्वयव्यतिरेकाभ्यां कारणत्वस्याऽवधृततया, अपायस्योपेक्षात्मकस्याऽपि सम्भवेनाऽपायस्याऽतिप्रसक्ततया, उपेक्षानात्मकज्ञानमात्रस्वरूपाविच्युतिमात्रवृत्तित्वेनाऽविच्युतित्वस्य स्मृतिकारणतावच्छेदकत्वेन, तेन रूपेण कारणीभूताया अविच्युतेः चिरं विनष्टायाः कालान्तरभाविनी स्मृति प्रति कारणत्वं न सम्भवतीत्येतदर्थं तद्व्यापारतया वासनाकल्पनमिति स्मृत्यन्यथानुपपत्त्यैव वासनायाः कल्पनीयत्वेन, तस्याः स्मृतिनिरूप्यत्वेन स्मृतिनिरूपणानन्तरं निरूपणं नाऽयुक्तमिति तृतीयभेदतया वासनानिरूपणमिति बोध्यम् ।
यद्यपि व्यञ्जनावग्रहार्थावग्रहेहापायाविच्युतिस्मृतिवासनाभेदेन मतिज्ञानस्य सप्तविधत्वम्, तथापि व्यञ्जनावग्रहार्थावग्रहयोरवग्रहत्वेनैक्यमविच्युतिस्मृतिवासनानां च धारणात्वेनैक्यमभिसन्धाय मतिज्ञानस्य सांव्यवहारिकप्रत्यक्षरूपस्य चतुर्धा विभजनं सुसङ्गतमेवेत्याशयेनाऽऽहद्वयोरिति । द्वयोः = व्यञ्जनार्थभेदेन द्विधयोः, तिसृणाम् = अविच्युतिस्मृतिवासनाभेदेन त्रिविधानाम् । न विभागव्याघात इति । मतिज्ञानस्य सप्तविधत्वे न्यूनाधिकसङ्ख्याव्यवच्छेदकत्वासम्भवेन चतुर्धा विभजनस्य यो व्याघात: स नेत्यर्थः ।
व्युत्पत्त्यर्थाश्रयणेनाऽपायधारणयोः स्वरूपतो भेदमभ्युपगच्छतां मतं प्रतिक्षेप्तुमुपन्यस्यतिकेचित्तु-अपनयनमपायः, धरणं च धारणेति व्युत्पत्त्यर्थमात्रानुसारिण:
'केचित्तु-अपनयन'-"तत्र विद्यमानात् स्थाण्वादेर्योऽन्यः तत्प्रतियोगी, तत्राऽविद्यमानः
१. कथमविच्युति-वासना-स्मृतिक्रमेण निरूपणमुचितम् ? किमर्थं च तथाऽकृत्वाऽविच्युति-स्मृति-वासना
क्रमेण निरूपणं कृतम् ? - इतीह चर्च्यते । २. अविच्युतिलक्षणधारणारूपापायस्य स्वाधारजीवे स्वावरणकर्मक्षयोपशमरूपेण स्थितिः, सैव भावनेत्युच्यते ।
तस्योद्बोधकसमवहितेन कालान्तरे उन्मीलनं स्मृतिः कथ्यते ।