________________
अपायधारणे
६५
शङ्खस्यैवाऽयं शब्दो न शार्ङ्गस्ये 'ति यो विशेषनिर्णयः सोऽपाय इत्येवं लक्षणानुगमो विधेयः । मतिज्ञानस्य चतुर्थभेदं धारणाज्ञानं निरूपयति
स एव दृढतमावस्थापन्नो धारणा । सा च त्रिविधा - अविच्युतिः, स्मृतिः, वासना च । तत्रैकार्थोपयोगसातत्यानिवृत्तिः अविच्युतिः । तस्यैवाऽर्थोपयोगस्य कालान्तरे 'तदेव' इत्युलेखेन समुन्मीलनं स्मृतिः । अपायाहितः स्मृतिहेतुः संस्कारो वासना । द्वयोरवग्रहयोरवग्रहत्वेन तिसृणां धारणानां च धारणात्वेनोपग्रहाद् न विभागव्याघातः ।
अत्र स एव दृढतमावस्थापन्न इति लक्षणनिर्देशः, धारणेति लक्ष्यनिर्देशः । दृढतमावस्थापन्नोऽपाय एव धारणेति कञ्चित् कालमवस्थितः सन् दार्क्ष्य भावमापन्नोऽपायो धारणेति यावत् । तां विभजते- सा चेति । धारणा चेत्यर्थः । अविच्युत्यादीनां क्रमेण लक्षणमुपदर्शयति तत्रेति । तेषु मध्ये इत्यर्थः ।
एकार्थोपयोगसातत्यानिवृत्तिरिति लक्षणम्, अविच्युतिरिति लक्ष्यम् । अपायेन निश्चितेऽर्थे कियत्कालपर्यन्तमुपयोगः सातत्येन वर्त्तते, न तु तस्माद् निवर्त्तते । अर्थादन्तराऽऽन्तरा तमर्थं परित्यज्य नाऽन्यविषयकोपयोगो भवति । सैकार्थोपयोगसातत्यानिवृत्तिः अविच्युतिर्नाम धारणायाः प्रथमभेद इत्यर्थः ।
स्मृतिनामकं धारणाया द्वितीयभेदं लक्षयति - तस्यैवेति । अविच्युतिलक्षणा धारणा कियत्कालानन्तरं विषयान्तरसञ्चारादिना विनश्यति, परं तया धारणया वासनालक्षणः संस्कार आत्मनि स्मृतिहेतुराधीयते, तादृशसंस्कारवशात् तिरोहितस्याऽपि तस्याऽर्थोपयोगस्यैव कालान्तरे तदेवोल्लेखेन यत् समुन्मीलनं = प्रकटनम् = उत्तरकालं तदेवेत्युल्लेखशालि यद् ज्ञानमाविर्भवति तत् स्मृतिरूपा धारणेत्यर्थः ।
वासनारूपं तृतीयं धारणाभेदं लक्षयति- अपायाहित इति । यद्यपि संस्कार इत्येव
' स एव दृढo - " अपायेन निश्चितेऽर्थे तदनन्तरं यावदद्यापि तदर्थोपयोगसातत्येन वर्त्तते न तु तस्मान्निवर्त्तते तावत् तदर्थोपयोगादविच्युतिर्नाम सा धारणायाः प्रथमभेदो भवति । ततः तस्य अर्थोपयोगस्य यद् आवरणं कर्म तस्य क्षयोपशमेन जीवो युज्यते, येन कालान्तरे इन्द्रियव्यापारादिसामग्रीवशात् पुनरपि तदर्थोपयोगः स्मृतिरूपेण समुन्मीलति सा चेयं तदावरणक्षयोपशमरूपा वासना नाम द्वितीयस्तद्भेदो भवति । कालान्तरे च वासनावशात् तदर्थस्य इन्द्रियैरुपलब्धस्य अथवा तैरनुपलब्धस्याऽपि मनसि या स्मृतिराविर्भवति सा तृतीयस्तद्भेद इति । एवं त्रिभेदा धारणा विज्ञेया । " - विशेषा० बृ० गा० २९१ ।