________________
सटीकजैनतर्कभाषायां तदुत्तरमिति । तदुत्तरं = 'शब्दोऽय'मिति व्यावहारिकार्थावग्रहानन्तरम् ।
उत्तरोत्तरेति । 'शब्दोऽय'मिति निश्चये जातेऽपि 'किमयं शब्दः शाङ्खः शावे'ति सन्दिह्य 'प्राय: शाळेनाऽनेन भवितव्य'मितीहा प्रवर्त्तते, ततः 'शाङ्घ एवाऽय'मिति निश्चयात्माऽपायो भवति । एतस्मात् कारणाद् युज्यते 'शब्दोऽय'मिति ज्ञानस्याऽर्थावग्रहत्वम् । एवं 'शाङ्ख एवाऽय'मिति निश्चयानन्तरं 'देवदत्तेन यज्ञदत्तेन वा ध्मातस्य शङ्खस्य शब्दोऽय'मिति सन्दिह्य 'प्रायो देवदत्ताध्मातशङ्खशब्देनाऽनेन भवितव्य'मितीहा प्रवर्त्तते, ततो 'देवदत्ताध्मातशङ्खशब्द एवाऽय'मिति निर्णयात्मकोऽपायो भवतीति तदपेक्षया 'शाङ्क्ष एवाऽय'मित्यस्याऽर्थावग्रहत्वमित्येवं यद्यद्धर्मापेक्षया विशेषधर्मः सम्भवति तत्तद्धर्मग्रहणं भविष्येहापायपूर्वकालीनमवग्रहस्वरूपं स्वविषयगतावगृहीतसामान्यधर्मापेक्षया विशेषावगाहित्वादपायस्वरूपं च । यदपायविषयीभूतधर्मापेक्षया परतो विशेषधर्मा न सन्ति, तत्राऽनन्तरमीहापायाप्रवृत्तेः सोऽप्यपाय एव, न व्यावहारिकार्थावग्रह इति भावः ।
___ अन्यथा = नैश्चयिकावग्रहगृहीते सामान्ये ईहिते चाऽनन्तरभावित्वेनाऽपायरूपस्य 'शब्द एवाऽय'मिति निश्चयस्य व्यावहारिकावग्रहत्वानभ्युपगमे, अवग्रहं विना = अर्थावग्रहं विना, ईहानुत्थानप्रसङ्गात् = "किमयं शब्दः शाङ्खः शा! वे'त्याद्युत्तरविशेषाकाङ्क्षणरूपेहानुत्थानप्रसङ्गात्-ईहां प्रति अवग्रहस्य कारणत्वात्, कारणाभावे कार्यासम्भवादिति ईहाकार्यान्यथानुपपत्त्याऽवग्रहोऽवश्यमेव कल्पनीयः, अथ चाऽन्यस्याऽर्थावग्रहस्य प्रकृतेऽसम्भवात् 'शब्दोऽयमि'त्यपाय एव तत्राऽर्थावग्रह इति । अत्रैव = व्यावहारिकार्थावग्रहे एव ।
अत एव = प्राथमिकापायस्य व्यावहारिकार्थावग्रहत्वाभ्युपगमादेव । उपर्युपरीति । प्रथमापायानन्तरं तद्रूपव्यावहारिकार्थावग्रहगृहीते शब्दत्वरूपे, महासामान्यसत्त्वापेक्षया विशेषस्वरूपेऽपि शाङ्घत्वाद्युत्तरविशेषापेक्षया सामान्यस्वरूपे, ईहातोऽपायात्मा 'शाङ्खोऽय'मिति ज्ञानं भवति । तदनन्तरं तद्रूपव्यावहारिकार्थावग्रहगृहीते शाङ्खत्वरूपे, शब्दत्वलक्षणसामान्यापेक्षया विशेषरूपेऽपि देवदत्ताध्मातशङ्खप्रभवत्वाद्युत्तरविशेषापेक्षया सामान्यरूपे, ईहातोऽपायात्मा 'देवदत्ताध्मातशङ्खप्रभव एवाऽय'मिति ज्ञानं भवति । इत्येवं क्रमेणोपर्युपरि ज्ञानधाराप्रवृत्तिलक्षण-ज्ञानसन्ततिरूपव्यवहारः सङ्गच्छते । प्रथमापायस्याऽवग्रहरूपत्वाभावे च तद्विषयस्य विशेषस्याऽवगृहीतत्वाभावाद् न तोहा, तदभावाच्च न द्वितीयापाय, एवं न तृतीयापाय इत्युक्तक्रमिकज्ञानसन्तानलक्षणव्यवहारविलोप एव प्रसज्येतेति भावः ।