________________
अर्थावग्रहः
विनेहानुत्थानप्रसङ्गात् । अत्रैव क्षिप्रेतरादिभेदसङ्गतिः । अत एव चोपर्युपरि ज्ञानप्रवृत्तिरूपसन्तानव्यवहार इति द्रष्टव्यम् ।
अवग्रहः अर्थावग्रहः । आद्यः नैश्चयिकोऽर्थावग्रहः, सामान्यमात्रग्राही रूपादिभ्योऽव्यावृत्तस्याऽव्यक्तस्य शब्दादिवस्तुसामान्यस्य ग्राहकः । द्वितीयश्च = व्यावहारिकोsर्थावग्रहः पुनः, विशेषविषयः = शब्दादिवस्तुसामान्यसत्तालक्षण - महासामान्यावान्तरशब्दत्वादिसामान्यविशेषविषयकः ।
=
६१
=
=
-
नन्वव्यक्तशब्दादिवस्तुसामान्यग्राह्यवग्रहस्य नैश्चयिकावग्रहत्वं युक्तं यतः तेनाऽवगृहीते सामान्ये 'किमयं शब्दोऽशब्दो वे' तीहाप्रवृत्त्यनन्तरं 'शब्द एवाऽय' मित्यपायस्य सम्भवः । ‘शब्द एवाऽयमिति व्यावहारिकार्थावग्रहानन्तरं त्वीहाद्यभावात् कथमस्याऽर्थावग्रहत्वमित्यत आह
इयं च सामान्यविशेषापेक्षा तावत् कर्तव्या यावदन्त्यो वस्तुनो विशेषः । यस्माच्च विशेषात् परतो वस्तुनोऽन्ये विशेषा न सम्भवन्ति सोऽन्त्यः, अथवा सम्भवत्स्वपि अन्यविशेषेषु यतो विशेषात् परतः प्रमातुस्तज्जिज्ञासा निवर्तते सोऽन्त्यः, तमन्त्यं विशेषं यावद् व्यावहारिकार्थवग्रहेहापायार्थं सामान्यविशेषापेक्षा कर्तव्या ।" - विशेषा० बृ० गा० २८२-४ ।
1
"सर्वत्र विषयपरिच्छेदे कर्तव्ये निश्चयतः ईहापायौ भवतः, 'ईहा, पुनरपायः, पुनरीहा, पुनरप्यपायः' इत्ययं क्रमेण यावदन्त्यो विशेषः तावदीहापायावेव भवतः, नाऽर्थावग्रहः । किं सर्वत्रैवमेव ? न, आद्यमव्यक्तं सामान्यमात्रालम्बनमेकसामयिकं ज्ञानं मुक्त्वाऽन्यत्रेहापायौ भवतः । इदं पुनर्नेहा, नाप्यपायः, किन्तु अर्थावग्रह एव । संव्यवहारार्थं व्यावहारिकजनप्रतीत्यपेक्षं पुनः सर्वत्र यो योऽपायः स स उत्तरोत्तरेहाऽपायापेक्षया, एष्यविशेषापेक्षया चोपचारतोऽर्थावग्रहः । एवं च तावद् नेयं यावत्तारतम्येनोत्तरोत्तरविशेषाकाङ्क्षा प्रवर्तते । " - विशेषा० बृ० गा० २८५ ।
"लोकेऽपि हि यो विशेषः सोऽपि अपेक्षया सामान्यम्, यत् सामान्यं तदप्यपेक्षया विशेष इति व्यवह्रियते । तथाहि - 'शब्द एवाऽयम्' इत्येवमध्यवसितोऽर्थः पूर्वसामान्यापेक्षया विशेषः, 'शाङ्खोऽयम्' इत्युत्तरविशेषापेक्षया तु सामान्यम् । अयं चोपर्युपरिज्ञानप्रवृत्तिरूपेण सन्तानेन लोके रूढः सामान्यविशेषव्यवहार: औपचारिकावग्रहे सत्येव घटते, नान्यथा, तदनभ्युपगमे हि प्रथमापायानन्तरमीहानुत्थानम्, उत्तरविशेषाग्रहणं चाऽभ्युपगतं भवति । उत्तरविशेषाग्रहणे च प्रथमापायव्यवसितार्थस्य विशेषत्वमेव न सामान्यत्वम् इति पूर्वोक्तरूपो लोकप्रतीतः सामान्यविशेषव्यवहारः समुच्छिद्येत । अथ प्रथमापायानन्तरमभ्युपगम्यत ईहोत्थानम्, उत्तरविशेषग्रहणं च, तर्हि सिद्धं तदपेक्षया प्रथमापायव्यवसितार्थस्य सामान्यत्वम्, यश्च सामान्यग्राहकः, यदनन्तरं च ईहादिप्रवृत्तिः सोऽर्थावग्रहः नैश्चयिकाद्यर्थावग्रहवत् इत्युक्तमेव । इति सिद्धो व्यावहारिकार्थावग्रहः, तत्सिद्धौ च सन्तानप्रवृत्त्याऽन्त्यविशेषं यावत् सिद्धः सामान्यविशेषव्यवहारः । " - विशेषा० बृ०
गा० २८८ ।