________________
सटीकजैनतर्कभाषायां तत्त्वतः = परमार्थतः, तेषां = क्षिप्रेतरादिभेदानाम् । कारणे = क्षिप्रेतरादिग्रहणस्वभावापायकारणेऽर्थावग्रहे, कार्यस्य = क्षिप्रेतरादिग्रहणस्वभावापायस्य, उपचारं = तद्गतधर्मस्य स्वरूपयोग्यतयाऽर्थावग्रहे कल्पितं सत्त्वम्, आश्रित्य = अवलम्ब्य । क्षिप्रग्रहणत्वादिकमनुपचरितमेव कुतो नाऽर्थावग्रहस्येत्याकाङ्क्षायामाह-अविशेषेति । विशेषविषयकत्वविकले सामान्यमात्रग्राहिण्यर्थावग्रहे इति यावत् ।
मुख्यतोऽप्यर्थावग्रहे क्षिप्रेतरादिभेदत्वमुपपादयितुं कल्पान्तरमाह
अथवा अवग्रहो द्विविध:-नैश्चयिकः, व्यावहारिकश्च । आद्यः सामान्यमात्रग्राही । द्वितीयश्च विशेषविषयः-तदुत्तरमुत्तरोत्तरधर्माकाङ्क्षारूपेहाप्रवृत्तेः, अन्यथा अवग्रहं अपायगतं विशेषज्ञानमर्थावग्रहेऽपि उपचरिष्याम इति । नैतदेवम्, यतो मुख्याभावे सति प्रयोजने निमित्ते च उपचारः प्रवर्तते । न चैवमुपचारे किञ्चित् प्रयोजनमस्ति । 'तेणं सद्देत्ति उग्गहिए' इत्यादिसूत्रस्य यथाश्रुतार्थनिगमनं प्रयोजनमिति चेत्, न, 'सद्देत्ति भणइ वत्ता' इत्यादि प्रकारेणाऽपि तस्य निगमितत्वात् । सामर्थ्यव्याख्यानमिदम्, न यथाश्रुतार्थव्याख्येति चेत्, तर्हि यधुपचारेणाऽपि श्रौतोऽर्थः सूत्रस्य व्याख्यायत इति तवाऽभिप्रायः, तर्हि यथा युज्यत उपचारः तथा कुरु । न चैतत् सामयिकेऽर्थावग्रहेऽसङ्ख्येयसामयिकं विशेषग्रहणं कथमप्युपपद्यते ।"-विशेषा० बृ० गा०
२८१।
___ 'अथवा अवग्रहो'-"प्रथमं नैश्चयिके अर्थावग्रहे रूपादिभ्योऽव्यावृत्तमव्यक्तं शब्दादिवस्तुसामान्यं गृहीतम्, ततः तस्मिन्नीहिते सति 'शब्द एवाऽयम्' इत्यादिनिश्चयरूपोऽपायो भवति । तदनन्तरं तु 'शब्दोऽयं किं शाङ्कः शार्गो वा' इत्यादिशब्दविशेषविषया पुनरीहा प्रवर्तिष्यते, 'शाल एवाऽयं शब्दः' इत्यादिशब्दविशेषविषयोऽपायश्च यो भविष्यति तदपेक्षया 'शब्द एवाऽयम्' इति निश्चयः प्रथमोऽपायोऽपि सन्नुपचारादर्थावग्रहो भण्यते ईहापायापेक्षात इति, अनेन चोपचारस्यैकं निमित्तं सूचितम् ।।
'शाङ्खोऽयं शब्दः' इत्याद्येष्यविशेषापेक्षया येनाऽसौ सामान्यशब्दरूपं सामान्यं गृह्णाति इति, अनेन तूपचारस्यैव द्वितीयं निमित्तमावेदितम्, तथाहि-यदनन्तरमीहापायौ प्रवर्तेते, यश्च सामान्य गृह्णाति सोऽर्थावग्रहः, यथाऽऽद्यो नैश्चयिकः, प्रवर्तते च 'शब्द एवाऽयम्' इत्याद्यपायानन्तरमीहापायौ, गृह्णाति च 'शाङ्खोऽयम्' इत्यादिभाविविशेषापेक्षयाऽयं सामान्यम् । तस्मादर्थावग्रह एष्यविशेषापेक्षया सामान्यं गृह्णातीति उक्तम् । ततस्तदनन्तरं किं भवति ? ततः सामान्येन शब्दनिश्चयरूपात् प्रथमापायादनन्तरम् 'किमयं शब्द: शाङ्कः शार्गो वा' इत्यादिरूपेहा प्रवर्तते । ततस्तद्विशेषस्य-शङ्खप्रभवत्वादेः शब्दविशेषस्य 'शाङ्क एवायम्' इत्यादिरूपेणाऽपायश्च निश्चयरूपो भवति । अयमपि च भूयोऽन्यतद्विशेषाकाङ्क्षावतः प्रमातु विनीमीहामपायं चापेक्ष्य, एष्यविशेषापेक्षया सामान्यालम्बनत्वाच्चार्थावग्रह इत्युपचर्यते ।