________________
अर्थावग्रहस्याऽऽलोचनपूर्वकत्वस्य निरासः
नन्ववग्रहेऽपि चाऽविरुद्धमिति चेद्;
५९
क्षिप्रेतरादिभेदप्रदर्शनादसङ्ख्येयसमयमानत्वं विशेषविषयत्वं
अवग्रहे = अर्थावग्रहे, अपिनेहाया असङ्ख्येयसमयमानत्वस्याऽऽम्रेडनम् ।
बहुबहुविधादिग्राहकस्य विशेषविषयकनिश्चयरूपस्यैव सम्भवेन तथाविधस्येहानन्तरभावित्वेनाऽपायत्वमेव । उक्तविशेषणकापायकारणत्वादेवाऽवग्रहे उपचारमाश्रित्य क्षिप्रावग्रहणत्वादिना तत्त्वार्थादौ द्वादशविधत्वप्ररूपणम् । कारणेऽप्यर्थावग्रहे सामान्यग्राहिणि विशेषग्राहिकार्यापायस्वरूपं शक्त्यात्मना योग्यतयाऽस्तीति तथा प्ररूपणं नाऽसङ्गतम् । अन्यथाऽशेषविशेषापरामृष्टसामान्यग्राहिण्यर्थावग्रहेऽनुपचरितस्य विशेषविषयकत्वनियतस्योक्तद्वादशविधत्वस्याऽसम्भवादिति समाधत्ते
न, तत्त्वतस्तेषामपायभेदत्वात्, कारणे कार्योपचारमाश्रित्याऽवग्रहभेदत्वप्रतिपादनात्, अविशेषविषये विशेषविषयत्वस्याऽवास्तवत्वात् ।
'नन्ववग्रहे'-''क्षिप्रमवगृह्णाति, चिरेणावगृह्णाति, बह्ववगृह्णाति, अबह्ववगृह्णाति, बहुविधमवगृह्णाति, अबहुविधमवगृह्णाति एवमनिश्रितम्, निश्रितम्, असन्दिग्धम्, सन्दिग्धम्, ध्रुवम्, अध्रुवमवगृह्णाति-इत्यादिना ग्रन्थेनाऽवग्रहादयः शास्त्रान्तरे द्वादशभिर्विशेषणैर्विशेषिताः । ततः ‘क्षिप्रं चिरेण वाऽवगृह्णाति' इति विशेषणान्यथानुपपत्तेर्ज्ञायते नैकसमयमात्रमान एवाऽर्थावग्रहः, किन्तु चिरकालिकोऽपि, नहि समयमात्रमानतयैकरूपे तस्मिन् क्षिप्रचिरग्रहणविशेषणमुपपद्यत इति भावः । तस्मादेतद्विशेषणबलात् असङ्ख्येयसमयमानोऽप्यर्थावग्रहो युज्यते । तथा, बहूनां श्रोतॄणामविशेषेण प्राप्तिविषयस्थे शङ्खभेर्यादिबहुतूर्यनिर्घोषे क्षयोपशमवैचित्र्यात् कोऽप्यबहु अवगृह्णाति-सामान्यं समुदिततूर्यशब्दमात्रमवगृह्णाति इत्यर्थः । अन्यस्तु बह्ववगृह्णाति शङ्खभेर्यादितूर्यशब्दान् भिन्नान् बहून् गृह्णातीत्यर्थः । अन्यस्तु स्त्रीपुरुषादिवाद्यत्व - स्निग्धमधुरत्वादिबहुविधविशेषविशिष्टत्वेन बहुविधमवगृह्णाति । अपरस्तु अबहुविधविशेषविशिष्टत्वादबहुविधमवगृह्णाति । अत एतस्माद् बहुबहुविधाद्यनेकविकल्पनानात्ववशात् अवग्रहस्य क्वचित् सामान्यग्रहणम्, क्वचित्तु विशेषग्रहणम् इत्युभयमप्यविरुद्धम् । अतो यत् सूत्रे 'तेणं सद्देत्ति उग्गहिए' इति वचनात् 'शब्दः' इति विशेषविज्ञानमुपदिष्टम्, तदप्यर्थावग्रहे युज्यत एव इति केचित् । " - विशेषा० बृ० गा० २८० ।
‘नः तत्त्वतः’–‘“अत्रोत्तरमाह - बहुबहुविधादिग्राहको हि विशेषावगमो निश्चयः, स च सामान्यार्थग्रहणमीहां च विना न भवति, यश्च तदविनाभावी सोऽपाय एव, कथमर्थावग्रह इति भण्यते ? आह-यदि बहुबहुविधादिग्राहकोऽपाय एव भवति तर्हि कथमन्यत्र अवग्रहादीनामपि बह्वादिग्रहणमुक्तम् ? सत्यम्, किन्तु अपायस्य कारणमवग्रहादयः । कारणे च योग्यतया कार्यस्वरूपमस्ति इति उपचारतस्तेऽपि बह्वादिग्राहकाः प्रोच्यन्ते इत्यदोषः । यद्येवं तर्हि वयमपि