________________
५८
सटीकजैनतर्कभाषायां न तृतीय इति । व्यञ्जनावग्रह एवाऽऽलोचनाज्ञानमिति तृतीयविकल्पोऽपि न सम्भवतीत्यर्थः । व्यञ्जनावग्रहस्यैवाऽऽलोचनाज्ञानमिति नामकरणे न नो विवादः-परिभाषाया अपर्यनुयोज्यत्वात्, परं तस्याऽर्थविषयकत्वाभावादालोचनत्वं न सम्भवतीत्याह- व्यञ्जनावग्रहस्यैवेति ।
यदि च व्यञ्जनावग्रहतयाऽभ्युपगम्यमानमालोचनाज्ञानं सामान्यमात्रविषयकमभ्युपेयते तदापि तदनन्तरमेव 'शब्दोऽय'मिति सामान्यविशेषस्वरूपशब्दत्वस्य निश्चयरूपोऽर्थावग्रहो भवदभिमतो न स्यादेव-ईहित एवाऽर्थे विशेषनिश्चयसम्भवो नाऽनीहिते । न चाऽऽलोचनानन्तरक्षणे युगपदेवेहार्थावग्रहौ स्यातामिति कल्पना युक्ता-अर्थावग्रहकालस्यैकसमयत्वाद्, ईहाकालस्य चाऽसङ्ख्येयसमयत्वात्, 'शब्दोऽय'मित्यवग्रहस्य च वस्तुतोऽपायरूपत्वेन तत्कालस्येहासङ्ख्येयकालात् पृथगेवाऽसङ्ख्येयकालत्वादित्याशयेनाऽऽह
किञ्च, आलोचनेनेहां विना झटित्येवाऽर्थावग्रहः कथं जन्यताम् ? युगपच्चेहावग्रहौ पृथगसङ्ख्येयसमयमानौ कथं घटेताम् ? इति विचारणीयम् ।
अपि च भवदुपगतोऽर्थावग्रहो निश्चयरूपः, ईहा चाऽनिश्चयरूपा । न चैकस्मिन्नर्थे एकदैवैकपुरुषस्य निश्चयानिश्चयौ इत्यपि युक्तिर्बोध्या।
ननु ‘क्षिप्रमवगृह्णाती'त्यादिना क्षिप्र-चिर-बहु-अबहु-बहुविध-अबहुविध-निश्रितअनिश्रित-सन्दिग्ध-असन्दिग्ध-ध्रुव-अध्रुवत्वलक्षणद्वादशविशेषणैर्विशेषिताः क्षिप्रावग्रहणादिस्वरूपा द्वादशार्थावग्रहाः तत्त्वार्थे प्ररूपिताः । ततश्च नैकसामयिक एवाऽर्थावग्रहः, किन्त्वसङ्ख्येयसमयमानोऽप्यसाविति ईहया समसमयमानत्वसम्भवेन समकालमुत्पत्तिविशेषविषयकत्वं च सम्भविष्यतीति शङ्कते
"किञ्च, आलोचनेन'-"भवतु तस्मिन् व्यञ्जनावग्रहे सामान्यं गृहीतम्, तथापि कथमनीहिते तस्मिन् अकस्मादेव अर्थवग्रहकाले 'शब्द एषः' इति विशेषज्ञानं युक्तम् ? 'शब्द एव एषः' इत्ययं हि निश्चयः । न चायमीहामन्तरेण झगित्येव युज्यते । अतो नाऽर्थावग्रहे 'शब्दः' इत्यादिविशेषबुद्धियुज्यते ।"-विशेषा० बृ० गा० २७८ ।
_ 'युगपच्च'-"अथ अर्थावग्रहसमये शब्दाद्यवगमेन सहैवेहा भविष्यतीति मन्यसे, तत्राऽऽह-यदिदमर्थावग्रहे विशेषज्ञानं त्वया इष्यते सोऽपायः, स च अवगमस्वभावो निश्चयस्वरूप इत्यर्थः । या च तत्समकालमीहाऽभ्युपेयते सा तर्कस्वभावा अनिश्चयात्मिका इत्यर्थः । तत एतौ ईहापायो अनिश्चयेतरस्वभावौ कथमर्थावग्रहे युगपदेव युक्तौ, निश्चयानिश्चययोः परस्परपरिहारेण व्यवस्थितत्वात् । अपरञ्च समयमात्रकालोऽर्थावग्रहः, ईहापायौ तु प्रत्येकमसङ्ख्येयसमयनिष्पन्नौ कथम् एकस्मिन्नर्थावग्रहसमये स्याताम्-अत्यन्तानुपपन्नत्वात् ।"-विशेषा० बृ० गा० २७९ ।