________________
अर्थावग्रहस्याऽऽलोचनपूर्वकत्वस्य निरासः
नाऽऽद्यः—अर्थव्यञ्जनसम्बन्धं विना तदयोगाद् । न द्वितीयः - व्यञ्जनावग्रहान्त्यसमयेऽर्थावग्रहस्यैवोत्पादादालोचनानवकाशात् । न तृतीयः - व्यञ्जनावग्रहस्यैव नामान्तरकरणात्, तस्य चाऽर्थशून्यत्वेनाऽर्थालोचनानुपपत्तेः ।
५७
=
स एव वा अथवा व्यञ्जनावग्रह एवाऽऽलोचनाज्ञानम् । नाद्य इति । व्यञ्जनावग्रहात् पूर्वमालोचनाज्ञानमिति प्रथमविकल्पो न युक्त इत्यर्थः । व्यञ्जनावग्रहात् पूर्वं शब्दादिपरिणतद्रव्यनिकुरम्बात्मकार्थेन सह श्रोत्रादीन्द्रियलक्षणव्यञ्जनस्य सम्बन्धसद्भावे व्यञ्जनावग्रह एव स्याद्, नाऽऽलोचनम् । उक्तसम्बन्धस्याऽभावे चाऽव्यक्तसामान्यग्रहणलक्षणालोचनाज्ञानस्य कारणाभावादेव न सम्भव इत्याह- अर्थव्यञ्जनेति । आलोचनाज्ञानासम्भवादित्यर्थः ।
न द्वितीय इति । व्यञ्जनावग्रहात् पश्चादालोचनाज्ञानमिति द्वितीयपक्षोऽपि न युक्त इत्यर्थः । तत्र कारणमाह-व्यञ्जनावग्रहान्त्येति । व्यञ्जनावग्रहार्थावग्रहयोरन्तरालकालस्य ताभ्यां विमुक्तस्याऽभावाद्, व्यञ्जनावग्रहान्त्यसमयेऽर्थावग्रहसद्भावस्यैवोपगमेन न तदानीमालोचनाज्ञानसम्भवादित्यर्थः ।
अर्थव्यञ्जनसम्बन्धो नास्ति, तद्भावे च व्यञ्जनावग्रहस्यैव इष्टत्वात् तत्पूर्वकालता न स्यादिति । "विशेषा० बृ० गा० २७४ ।
‘न द्वितीयः—‘द्वितीयविकल्पं शोधयन्नाह - अर्थावग्रहोऽपि यस्मात् व्यञ्जनावग्रहस्यैव चरमसमये भवति तस्मात् पश्चादपि व्यञ्जनावग्रहादालोचनज्ञानं न युक्तम्, निरवकाशत्वात् । नहि व्यञ्जनार्थवग्रहयोरन्तरे कालः समस्ति यत्र तत् त्वदीयमालोचनज्ञानं स्यात्, व्यञ्जनावग्रहचरमसमय एवाऽर्थावग्रहसद्भावात् । " - विशेषा० बृ० गा० २७५ ।
'न तृतीयः'–''पूर्वपश्चात्कालयोर्निषिद्धत्वात् पारिशेष्याद् मध्यकालवर्ती तृतीयविकल्पोपन्यस्तो व्यञ्जनावग्रह एव भवताऽऽलोचनाज्ञानत्वेनाभ्युपगतो भवेत् । एवं च न कश्चिद् दोषः, नाममात्र एव विवादात् । " - विशेषा० बृ० गा० २७५ ।
‘तस्य च’—‘“क्रियतां तर्हि प्रेरकवर्गेण वर्धापनम् त्वदभिप्रायाविसंवादलाभादिति चेत्, नैवम्, विकल्पद्वयस्येह सद्भावात्, तथाहि - तद्व्यञ्जनावग्रहकालेऽभ्युपगम्यमानमालोचनम्किमर्थस्याऽऽलोचनम्, व्यञ्जनानां वा ? इति विकल्पद्वयम् । तत्र प्रथमविकल्पं दूषयन्नाहतत्समालोचनं यदि सामान्यरूपस्य अर्थस्य दर्शनमिष्यते तर्हि न व्यञ्जनावग्रहात्मकं भवति, व्यञ्जनावग्रहस्य व्यञ्जनसम्बन्धमात्ररूपत्वेन अर्थशून्यत्वात् । अथ द्वितीयविकल्पमङ्गीकृत्याह-अथ व्यञ्जनस्य शब्दादिविषयपरिणतद्रव्यसम्बन्धमात्रस्य तत्समालोचनमिष्यते तर्हि कथम् आलोचकत्वं तस्य घटते ? अर्थशून्यस्य व्यञ्जनसम्बन्धमात्रान्वितत्वेन सामान्यार्थालोचकत्वानुपपत्तेः । " विशेषा० बृ० गा० २७६ ।