________________
५६
सटीकजैनतर्कभाषायां शेषेण = जातमात्र-परिचितविषय-परिचिततरप्रमातृ-साधारण्येन ।
विशेषधर्मग्रहणे सामान्यधर्मिग्रहणस्य कारणत्वेन प्रथमं शब्दरूपर्मिग्रहणं विना तद्गतबहुविशेषग्रहणं विशिष्टमतेरपि प्रमातुर्न सम्भवतीत्याह- प्रकृष्टमतेरपीति ।
विषयविषयिसन्निपातानन्तरं सामान्यमात्रग्राहि दर्शनं भवति, तदनन्तरमवान्तरशब्दत्वादिसामान्यविशेषावग्राह्यर्थावग्रहो भवतीति केचिदभ्युपगच्छन्ति । तन्मतं प्रतिक्षेप्तुमुपन्यस्यति
अन्ये तु-आलोचनपूर्वकमर्थावग्रहमाचक्षते । तत्राऽऽलोचनमव्यक्तसामान्यग्राहि, अर्थावग्रहस्त्वितरव्यावृत्तवस्तुस्वरूपग्राहीति न सूत्रानुपपत्तिः इति ।
"अस्ति ह्यालोचनाज्ञानं, प्रथमं निर्विकल्पकम् ।
बालमूकादिविज्ञान-सदृशं शुद्धवस्तुजम् ॥" इति वचनाद् निर्विकल्पकं ज्ञानमव्यक्तं सामान्यग्राहि आलोचनम्, तत्पूर्वकं = तदुत्तरकालीनमर्थावग्रहमाचक्षते = कथयन्तीत्यर्थः । तत्र = उक्तमते, अव्यक्तसामान्यग्राहि = अवान्तरविशेषमात्राप्रतिभासिसामान्यग्राहि, अर्थावग्रहस्तु = 'शब्दोऽय'मित्यवान्तरशब्दत्वलक्षणसामान्यविशेषग्राहि ज्ञानं पुनः, इतरव्यावृत्तवस्तुस्वरूपग्राही = शब्देतररूपादिव्यावृत्तशब्दात्मकवस्तुस्वरूपग्राहि । इति = एवमभ्युपगमेन, न सूत्रानुपपत्तिः = "तेणं सद्देत्ति उग्गहिए' इति सूत्रस्य 'शब्दोऽय'मित्यवग्रहेण 'शब्द इत्यवगृहीत' इत्यर्थकस्य नाऽनुपपत्तिः । अर्थावग्रहे शब्दत्वेन शब्दभानस्य स्वीकारात् तथा तदर्थस्य सम्भवादित्याशयः ।
___ भवदभ्युपगतमालोचनाज्ञानं व्यञ्जनावग्रहात् पूर्वं तत्पश्चाद् व्यञ्जनावग्रहरूपं वा न सम्भवति, प्रकारान्तरेण तत्सम्भवः चाऽसम्भावित एवेति न तदुपगमो ज्यायानिति प्रतिक्षिपति
तदसद्, यत आलोचनं व्यञ्जनावग्रहात् पूर्वं स्यात्, पश्चाद् वा, स एव वा ?
'अन्ये तु आलोचना'-"विषयविषयिसन्निपातसमयानन्तरमाद्यग्रहणमवग्रहः । विषयविषयिसन्निपाते सति दर्शनं भवति तदनन्तरमर्थस्य ग्रहणमवग्रहः ।"-सर्वार्थ० १.१५ ।
'यत आलोचनम्'-"यदेतत् भवदुत्प्रेक्षितं सामान्यग्राहकमालोचनं तत् व्यञ्जनावग्रहात् पूर्व वा भवेत्, पश्चाद्वा भवेत्, स एव व्यञ्जनावग्रहोऽपि आलोचनं भवेत् ? इति त्रयी गतिः । किञ्चाऽतः ? ।" विशेषा० बृ० गा० २७४ ।
"पूर्वं तत् नास्ति । कुतः ? अर्थव्यञ्जनसम्बन्धाभावादिति । अर्थः-शब्दादिविषयभावेन परिणतद्रव्यसमूहः, व्यञ्जनं तु श्रोत्रादि, तयोः सम्बन्धः, तस्याऽभावात् । सति हि अर्थव्यञ्जनसम्बन्धे सामान्यार्थालोचनं स्यात्, अन्यथा सर्वत्र सर्वदा तद्भावप्रसङ्गात् । व्यञ्जनावग्रहाच्च पूर्वम्