________________
अर्थावग्रहे शब्दोल्लेखाभावनियमनम्
५५ सन्मात्रावगाहि ज्ञानम्, अर्थावग्रहणमिति शेषः । परिचितविषयस्य तु = गृहीतसङ्केतादिकस्य पुंसः पुनः, आद्यसमये एव = प्रथमशब्दश्रवणसमय एव, विशेषज्ञानं = 'शब्दोऽयम्, रूपादिरय'मित्येवं विशेषनिश्चयात्मकं ज्ञानम्, अर्थावग्रहणमित्यत्राऽपि ज्ञेयम् । एतदपेक्षया = परिचितविषय-प्रमातृनिष्ठविशेषज्ञानलक्षणार्थावग्रहापेक्षया ।
यथा च परिचितविषयस्य पुंस आद्यसमयेऽपि 'शब्दोऽय'मिति निश्चयात्मकं ज्ञानं भवति, तथा ततोऽपि परिचिततरविषयस्य पटुतरमतेः तनिश्चयादप्यधिकतरशाङ्घत्वादि-विशेषनिर्णयात्मकं ज्ञानमाद्यसमये एव भवेत्-पुरुषेषु शक्तितारतम्यस्योपलभ्यमानस्याऽपनेतुमशक्यत्वात् । न चैतदिष्टापादनतया परिहर्तुं शक्यं-विशिष्टमतेरपि शब्दरूपधर्मिग्रहणे सत्येवोत्तरोत्तरक्रमिकबहुधर्मविशेषग्रहणस्य न्याय्यत्वात्, प्रथमसमये एव बहुतरग्रहणस्य 'न उण जाणइ के वेस सद्देत्ति' इति सूत्रविरुद्धत्वाच्चेत्यभिप्रायेण तन्मतखण्डनमुपनिबध्नाति
तन्न, एवं हि व्यक्ततरस्य व्यक्तशब्दज्ञानमतिक्रम्याऽपि सुबहुविशेषग्रहप्रसङ्गात् । न चेष्टापत्तिः- 'न पुनर्जानाति क एष शब्द' इति सूत्रावयवस्याऽविशेषेणोक्तत्वात्, प्रकृष्टमतेरपि शब्दं धर्मिणमगृहीत्वोत्तरोत्तरसुबहुधर्मग्रहणानुपपत्तेश्च ।
तन्नेति । उक्तमतं न समीचीनमित्यर्थः । व्यक्ततरस्य = अतिपरिचितविषयस्य प्रमातुः । व्यक्तशब्दज्ञानमतिक्रम्याऽपीति । जातमात्रस्य बालस्य प्रथमसमयेऽव्यक्तशब्दज्ञानम् । तदतिक्रम्य परिचितविषयस्य जन्तोर्यथा प्रथमसमये एव व्यक्तशब्दज्ञानम्, तत्र यथा प्रथममव्यक्तशब्दज्ञानम्, ततो व्यक्तशब्दज्ञानमिति न क्रमः, किन्तु प्रथममेव व्यक्तशब्दज्ञानम्, तथाऽतिपरिचितविषयस्य पटुतरमतेः प्रथमसमये एव व्यक्तशब्दज्ञानमतिक्रम्याऽपि शाङ्खत्वादिबहुविशेषग्रहः प्रसज्येतेत्यर्थः ।
उक्तापादनस्येष्टापत्तितया परिहरणं सूत्रविरोधेन निषेधति-न चेष्टापत्तिरिति । अवि___ 'तन्न, एवं हि'-"अत्रोत्तरमाह-यदि परिचितविषयस्य जन्तोः अव्यक्तशब्दज्ञानमुल्लङ्घ्य तस्मिन्नर्थावग्रहैकसमयमात्रे शब्दनिश्चयज्ञानं भवति, तदा अन्यस्य कस्यचित् परिचिततरविषयस्य पटुतरावबोधस्य तस्मिन्नेव समये व्यक्तशब्दज्ञानमप्यतिक्रम्य 'शाङ्खोऽयं शब्दः' इत्यादिसङ्ख्यातीतविशेषग्राहकमपि ज्ञानं भवदभिप्रायेण स्यात् । दृश्यन्ते च पुरुषशक्तीनां तारतम्यविशेषाः । भवत्येव कस्यचित् प्रथमसमयेऽपि सुबहुविशेषग्राहकमपि ज्ञानमिति चेत्, न, 'न उण जाणइ के वेस सद्दे' इत्यस्य सूत्रावयवस्य अगमकत्वप्रसङ्गात् । विमध्यमशक्तिपुरुषविषयमेतत् सूत्रमिति चेत्, न, अविशेषेण उक्तत्वात् सर्वविशेषविषयत्वस्य च युक्त्यनुपपन्नत्वात् । नहि प्रकृष्टमतेरपि शब्दधर्मिणमगृहीत्वा उत्तरोत्तरसुबहुधर्मग्रहणसंभवोऽस्ति निराधारधर्माणामनुपपत्तेः । विशेषा० बृ० गा० २६९ ।