________________
५४
सटीकजैनतर्कभाषायां ननु सूत्रेऽव्यक्तशब्दश्रवणं व्यञ्जनावग्रहेऽव्यक्तभानमाश्रित्यैव भविष्यतीत्यत आह
यदि च व्यञ्जनावग्रहे एवाऽव्यक्तशब्दग्रहणमिष्येत तदा सोऽप्यर्थावग्रहः स्याद्अर्थस्य ग्रहणात् ।
___ एवं सति व्यञ्जनावग्रहस्याऽव्यक्तशब्दरूपार्थविषयकत्वेनाऽर्थावग्रहत्वं स्याद्, न तु व्यञ्जनावग्रहत्वम् । एवमपि व्यञ्जनावग्रहत्वेऽर्थावग्रहत्वेनाऽभिमतस्याऽपि व्यञ्जनावग्रहत्वं स्यादिति भावः । सोऽपि = व्यञ्जनावग्रहोऽपि ।
ये च-सर्वविशेषविमुखसामान्यमात्रलक्षणाव्यक्तग्रहणं प्रथमसमये तत्क्षणजातमात्रशिशोः सङ्केतादिविकलस्य भवति, सङ्केतादिपरिकर्मितमतेः परिचितविषयस्य तु प्रमातुः प्रथमशब्दश्रवणसमये एव विशेषविषयकमप्यर्थावग्रहणं भवति । अथ च परिचितविषयप्रमातारमधिकृत्यैव 'तेणं सद्देत्ति उग्गहिए' इति सूत्रं 'शब्दः तेनाऽवगृहीत' इत्यर्थकं प्रवृत्तम् । तथा च 'शब्दोऽय'मिति निश्चयात्मकावग्रहेण 'शब्द इत्यवगृहीत' इति यथाश्रुत एव सङ्गच्छतेइति मन्यन्ते, तन्मतं प्रतिक्षेप्तुमुपन्यस्यति
केचित्तु-सङ्केतादिविकल्पविकलस्य जातमात्रस्य बालस्य सामान्यग्रहणम्, परिचितविषयस्य त्वाद्यसमये एव विशेषज्ञानमित्येतदपेक्षया 'तेन शब्द इत्यवगृहीत' इति नाऽनुपपन्नम्-इत्याहुः,
केचित्त्विति । अस्य आहुरित्यनेन सम्बन्धः । सङ्केतादिविकल्पविकलस्य = 'अनेन शब्देनाऽयमर्थो बोद्धव्य, इदं पदममुमर्थं बोधयत्वि'त्यादिपुरुषेच्छालक्षणसङ्केतादिज्ञानरहितस्य, जातमात्रस्य = तत्क्षणादावेव जातस्य, सामान्यग्रहणम् = अशेषविशेषानवगाहि महासामान्य
'यदि च व्यञ्जनावग्रहे'-"ननु यदि व्यञ्जनावग्रहेऽपि अव्यक्तशब्दग्रहणं भवेत् तदा को दोषः स्यात् ? इत्याह-यदि च व्यञ्जनावग्रहे असौ अव्यक्तशब्दः प्रतिभासत इत्यभ्युपगम्यते तदा व्यञ्जनावग्रहो न प्राप्नोति, अर्थावग्रह एवाऽसौ अव्यक्तार्थावग्रहणात् । अथ अस्याऽपि सूत्रे प्रोक्तत्वादस्तित्वं न परिहियते तर्हि द्वयोरप्यविशेषः सोऽपि अर्थावग्रह: सोऽपि व्यञ्जनावग्रहः प्राप्नोति।" -विशेषा० बृ० गा० २६५ ।
'केचित्तु'-"केचिदेवमाहुः-यदेतत् सर्वविशेषविमुखस्याऽव्यक्तस्य सामान्यमात्रस्य ग्रहणं तत् शिशोस्तत्क्षणजातमात्रस्य भवति नात्र विप्रतिपत्तिः, असौ सङ्केतादिविकलोऽपरिचितविषयः । यः परिचितविषयः तस्य आद्यशब्दश्रवणसमय एव विशेषविज्ञानं जायते स्पष्टत्वात् तस्य, ततश्चाऽमुमाश्रित्य 'तेणं सद्देत्ति उग्गहिए' इत्यादि यथाश्रुतमेव व्याख्यायते, न कश्चिद्दोषः ।"विशेषा० बृ० गा० २६८ ।