________________
अर्थावग्रहे शब्दोल्लेखाभावनियमनम्
अर्थावग्रहानन्तरं 'न उण जाणइ के वेस सद्देत्ति' नन्दिसूत्रे 'न पुनर्जानाति, को वैष शब्द' इत्येवं शब्दत्वावान्तरशाङ्खत्वादिविशेषापरिज्ञानस्यैवोक्तत्वेन शब्दत्वलक्षण-सामान्यपरिज्ञानं तत्राऽनुमतमेव । न हि शब्दत्वेन रूपेण शब्देऽगृहीते शब्दत्वावान्तरविशेषमार्गणं युज्यते-सामान्यावान्तरधर्मेण धर्मिजिज्ञासायां सामान्यधर्मप्रकारकज्ञानस्य हेतुत्वादिति शङ्कितुरभिप्रायः ।
यत्र कुत्रापि शब्दात्मकवस्त्ववग्रहस्वरूपोपवर्णनं तत्र सर्वत्र शब्दवस्तुस्वरूपवाचकस्य 'शब्द'इत्येवंरूपस्य शब्दस्य प्रयोगं वक्तैव = तत्प्ररूपको विदधाति । न तु तत्र ज्ञाने शब्दत्वेन शब्दोऽवभासते, तथा सत्येकसामयिकत्वमर्थावग्रहस्य भज्येत । अपि तु अर्थावग्रहेऽव्यक्तशब्दस्वरूपप्रतिभासनमेव सूत्रसम्मतम्, अव्यक्तज्ञानं चाऽनाकारोपयोगरूपमव्यक्तशब्दार्थग्राहकमेवेति समाधत्ते
न, 'शब्दः शब्दः' इति भाषकेणैव भणनाद् अर्थावग्रहेऽव्यक्तशब्दश्रवणस्यैव सूत्रे निर्देशाद्, अव्यक्तस्य च सामान्यरूपत्वाद्, अनाकारोपयोगरूपस्य चाऽस्य तन्मात्रविषयत्वात् ।
सूत्रे = नन्द्यध्ययने 'से जहानामए केइ पुरिसे अव्वत्तं सदं सुणेज्जत्ति' अस्मिन् सूत्रे । अव्यक्तं = 'शब्दोऽयम्, रूपादिर्वे'त्यादिना प्रकारेणाऽव्यक्तम् । अर्थावग्रहस्याऽनाकारोपयोगरूपतया सूत्रे पठितत्वेन, अनाकारोपयोगत्वस्य सामान्यमात्रविषयकत्वे सत्येव घटमानत्वेन, 'शब्द'इत्येवमुल्लेखस्य शाङ्खशाङ्गभेदापेक्षयाऽव्यक्तत्वेऽपि महासामान्यसत्तापेक्षया व्यक्तत्वस्यैव भावेनाऽव्यक्तशब्दार्थत्वासम्भवादिति भावः । अस्य = अर्थावग्रहस्य । तन्मात्रविषयत्वात् = अव्यक्तमहासामान्य-सन्मात्रविषयत्वात् ।।
'नः शब्दः शब्दः'-"अत्रोत्तरमाह-सर्वत्रावग्रहस्वरूपं प्ररूपयन् 'शब्दः शब्दः' इति प्रज्ञापक एव वदति, न तु तत्र ज्ञाने शब्दप्रतिभासोऽस्ति, अन्यथा न समयमात्रे अर्थावग्रहकाले 'शब्दः' इति विशेषणं युक्तम्, आन्तर्मुहूर्तिकत्वात् शब्दनिश्चयस्य ।"-विशेषा० बृ० गा० २६१ ।
'अर्थावग्रहे'-"यदि तव गाढः श्रुतावष्टम्भः तदा तत्राप्येतत् भणितं यदुत प्रथममव्यक्तस्यैव शब्दोल्लेखरहितस्य शब्दमात्रस्य ग्रहणम् । केन पुनः सूत्रावयवेनेदमुक्तम् ? नन्द्यध्ययने 'से जहानामए केइ पुरिसे अव्वत्तं सदं सुणेज्जत्ति'-अत्र अव्यक्तमिति कोऽर्थः ? 'शब्दोऽयम्' 'रूपादिर्वा' इत्यादिना प्रकारेणाऽव्यक्तमित्यर्थः । न च वक्तव्यम्-शाङ्ख-शाङ्गभेदापेक्षया शब्दोल्लेखस्याऽप्यव्यक्तत्वे घटमाने कुत इदं व्याख्यानं लभ्यते ? इति, अवग्रहस्याऽनाकारोपयोगरूपतया सूत्रेऽधीतत्वात्, अनाकारोपयोगस्य च सामान्यमात्रविषयत्वात्, प्रथममेवाऽपायप्रसक्त्याऽवग्रहेहाऽभावप्रसङ्ग इत्याधुक्तत्वाच्च ।"-विशेषा० बृ० गा० २६२ ।