________________
सटीकजैनतर्कभाषायां गतार्थावग्रहकालात् प्राक् प्रतिपत्तव्यम् । स च व्यञ्जनावग्रहकालोऽर्थपरिशून्य इति यत्किञ्चिदेतत् ।
किञ्चेति । भवतूक्तार्थावग्रहात् पूर्वमीहा, किं नः छिनमित्यत आह-सा चेति । सा च = ईहा पुनः । भवतु गृहीत एवाऽर्थे ईहासमुदयः, ईहातः प्रागर्थग्रहणमपि स्वीकरिष्याम इत्यत आह-तद्ग्रहणमिति । यस्मिन् गृहीते ईहा स्यात् तत् सामान्यार्थग्रहणमित्यर्थः ।
____ अस्मदभ्युपगतेति । अयमभिप्रायः-यदेतदीहार्थमीहातः प्राक् सामान्यार्थावग्रहणं तत्कालः कश्चिदवश्यमभ्युपेयः । स यद्यस्मदभ्युपगतार्थावग्रहकाल एव, तदाऽस्मदभ्युपगतार्थावग्रह एवाऽयमर्थावग्रह: स्यात्, तथा च तदनन्तरोत्पन्नेहानन्तरजायमानस्य 'शब्दोऽय'मिति ज्ञानस्याऽपायत्वमेव कक्षीकृतं स्यादिति पर्यवसितं विवादेन । तस्मादस्मदभ्युपगतार्थावग्रहकालात् प्राक्काले एव सोऽभ्युपेयः, न च तत् सम्भवति-तत्कालस्य व्यञ्जनावग्रहत्वेनाऽर्थपरिशून्यत्वात्, तदानीं कस्याप्यर्थस्य सामान्यरूपस्य विशेषरूपस्य वा प्रतिभासासम्भवादिति । स च = अस्मदभ्युपगतार्थावग्रहकालपूर्वकालश्च ।
ननु शब्दत्वं यद्यर्थावग्रहे गृहीतं न स्यात् तदा तदनन्तरं 'क एष शब्द' इत्येवमीहायाः प्रवृत्तिर्न स्यादतः शब्दत्वेन शब्दावग्राहित्वमर्थावग्रहस्याऽभ्युपेयमित्याशङ्कते
__नन्वनन्तरं 'क एष शब्द' इति शब्दत्वावान्तरधर्मविषयकेहानिर्देशात् 'शब्दोऽयमि' त्याकार एवाऽवग्रहोऽभ्युपेय इति चेद्, कुरुते । "-विशेषा० बृ० गा० २५८ ।
"ईहायाः पूर्वं यत् सामान्यं गृह्यते तस्य तावद् ग्रहणकालेन भवितव्यम् । स चाऽस्मदभ्युपगतसामयिकार्थावग्रहकालरूपो न भवति, अस्मदभ्युपगताङ्गीकारप्रसङ्गात् । किं तर्हि ? अस्मदभ्युपगतार्थावग्रहात् पूर्वमेव भवदभिप्रायेण तस्य सामान्यस्य ग्रहणकालेन भवितव्यम्, पूर्व च तस्याऽस्मदभ्युपगतार्थावग्रहस्य व्यञ्जनकाल एव वर्तते । भवत्वेवम्, तथापि तत्र सामान्यार्थग्रहणं भविष्यति इत्याशङ्क्याह-स च व्यञ्जनकालः अर्थपरिशून्यः, न हि तत्र सामान्यरूपो विशेषरूपो वा कश्चनाऽप्यर्थः प्रतिभाति, तदा मनोरहितेन्द्रियमात्रव्यापारात्, तत्र चार्थप्रतिभासायोगात् । तस्मात् पारिशेष्याद् अस्मदभ्युपगतार्थावग्रह एव सामान्यग्रहणम्, तदनन्तरं चाऽन्वयव्यतिरेकधर्मपर्यालोचनरूपा ईहा, तदनन्तरं च 'शब्द एवाऽयम्' इति निश्चयज्ञानमपायः।"-विशेषा० बृ० गा० २५९ ।
'नन्वनन्तरम्'-"न उण जाणइ के वेस सद्देत्ति" अस्मिन् नन्दिसूत्रे 'न पुनर्जानाति कोप्येष शाङ्खशार्गाद्यन्यतरः शब्दः' इति विशेषस्यैवाऽपरिज्ञानमुक्तम्। शब्दसामान्यमात्रग्रहणं तु अनुज्ञातमेव। शब्दसामान्ये गृहीत एव तद्विशेषमार्गणस्य युज्यमानत्वात् ।"-विशेषा० बृ० गा० २६० ।