________________
अर्थावग्रहे शब्दोल्लेखाभावनियमनम् स्योत्तरोत्तरविशेषापेक्षयाऽव्यवस्थितत्वात् ।
अस्य = 'शब्दोऽय'मिति ज्ञानस्य ।
ननु बृहद्विशेषावगाहिज्ञानत्वमपायत्वम्, स्तोकविशेषावगाहिज्ञानत्वमर्थावग्रहत्वमिति 'शब्दोऽय'मिति ज्ञानस्य शब्दमात्रस्तोकविशेषावगाहित्वेनाऽर्थावग्रहत्वम्, 'शाङ्खोऽय'मिति ज्ञानस्य तु बृहद्विशेषावगाहित्वेनाऽपायत्वमिति सुव्यवस्थितत्वमर्थावग्रहापाययोरिति पराकूतप्रतिविधानायाऽऽह-स्तोकग्रहणस्येति । एवमुपगमे समुच्छिन्नवाऽपायकथा-उत्तरोत्तरविशेषावगाहिज्ञानापेक्षया पूर्वपूर्वविशेषग्रहणस्य स्तोकविशेषविषयकत्वेनाऽर्थावग्रहत्वस्यैव प्राप्तेरित्यभिसन्धिः ।
___ अपि च शब्दगतानुगामिधर्माणां शब्दभिन्नेभ्यो रूपादिभ्यो व्यावृत्तिग्रहणे सत्येव 'शब्दोऽय'मिति लक्षणोऽर्थावग्रहो भवेत्-अशब्दाद् व्यावृत्तत्वाग्रहेऽशब्दत्वसद्भावसंशये शब्दत्वनिश्चयासम्भवात् । शब्दान्वयधर्माणामन्यव्यावृत्तिग्रहणं च विमर्शलक्षणेहामन्तरेण न सम्भवदुक्तिकम् । तथा च पूर्वमीहाभावे एव 'शब्दोऽय'मिति ग्रहः । तथा च कुतोऽस्याऽर्थावग्रहत्वम्, व्यञ्जनावग्रहानन्तरसमुद्भूतस्यैवाऽर्थावग्रहत्वस्याऽस्माभिरुपगमाद्, अस्य च नैवंभावादित्याह
किञ्च 'शब्दोऽय'मिति ज्ञानं शब्दगतान्वयधर्मेषु रूपादिव्यावृत्तिपर्यालोचनरूपामीहां विनाऽनुपपन्नम् । सा च नाऽगृहीतेऽर्थे सम्भवतीति तद्ग्रहणमस्मदभ्युप
एवाऽयम् । कः पुनस्तर्हि अपायः ? 'शाङ्खोऽयं शब्दः' इत्यादि विशेषणविशिष्टं यद् ज्ञानं तद् अपायः बृहद्विशेषावसायित्वादिति । हन्त ! यदि यत् यत् स्तोकं तत् तत् नाऽपायः, तर्हि निवृत्ता सांप्रतमपायज्ञानकथा, उत्तरोत्तरार्थग्रहणापेक्षया पूर्वपूर्वार्थविशेषावसायस्य स्तोकत्वात् । एवमुत्तरोत्तरविशेषग्राहिणामपि ज्ञानानां तदुत्तरोत्तरभेदापेक्षया स्तोकत्वादपायत्वाभावो भावनीयः ।" - विशेषा० बृ० गा० २५५ ।
'किञ्च शब्दोऽयमिति'-"किञ्च, शब्दगतान्वयधर्मेषु रूपादिभ्यो व्यावृत्तौ च गृहीतायां 'शब्द एव' इति निश्चयज्ञानं युज्यते । तद्ग्रहणं च विमर्शमन्तरेण नोपपद्यते, विमर्शश्च ईहा, तस्मादीहामन्तरेण अयुक्तमेव 'शब्द एव' इति निश्चयज्ञानम् । अथ निश्चयकालात् पूर्वमीहित्वा भवतोऽपि 'शब्द एवाऽयम्' इति ज्ञानमभिमतम्, हन्त ! तर्हि निश्चयज्ञानात् पूर्वमसावीहा भवद्वचनतोऽपि सिद्धा।"-विशेषा० बृ० गा० २५७ ।
___ 'सा च नाऽगृहीते'-"नन्वीहायाः पूर्वं किं तद् वस्तु प्रमात्रा गृहीतम्, यद् इहमानस्य तस्य 'शब्द एवाऽयम्' इति निश्चयज्ञानमुपजायते ? नहि कश्चिद् वस्तुन्यगृहीतेऽकस्मात् प्रथमत एवेहां