________________
सटीकजैनतर्कभाषायां ननु प्रथमसमये एव 'शब्दोऽय'मित्याकारकोऽर्थावग्रहोऽस्तु । तत्र शब्दमात्रत्वेन यद् भानं तदेव सामान्यग्रहणम् । तदनन्तरं 'प्रायः शाळेनाऽनेन भवितव्यम्, शाङ्घशब्दधर्मस्य माधुर्यादेरत्र सम्भवात्, शाङ्गशब्दधर्मस्य कर्कशत्वादेरत्राऽनवलोकना'दिति विमर्शबुद्धिरीहा । ततः 'शाङ्घ एवाऽय'मिति ज्ञानमपायोऽस्त्विति शङ्कते... .........
स्याद् मतं-'शब्दोऽय मिति सामान्यविशेषग्रहणमप्यर्थावग्रह इष्यताम्, तदुत्तरं 'प्रायो माधुर्यादयः शङ्खशब्दधर्मा इह, न तु शाङ्गधर्माः खरकर्कशत्वादय' इतीहोत्पत्तेः इति ।
सामान्यविशेषग्रहणं = शब्दत्वलक्षणस्य महासामान्यसत्त्वापेक्षयाऽवान्तरसामान्यस्य ग्रहणम् । अपीत्यनेन सत्तामात्रेण शब्दग्रहणस्याऽर्थावग्रहत्वाभ्यनुज्ञानम् । ईहापूर्ववर्तित्वे सत्येव 'अयं शब्द' इति ज्ञानस्याऽर्थावग्रहत्वं युज्येत, अतः तदनन्तरमीहासम्भवं दर्शयति-तदुत्तरमिति । 'शब्दोऽय'मिति ज्ञानानन्तरमित्यर्थः ।
'शब्दोऽय'मित्येवं निश्चयात्मकावग्रहे 'नाऽशब्दोऽय'मित्येवमशब्देभ्यो रूपादिभ्यो व्यावृत्तिग्रहणमवश्यमेवेष्टं भवेत्-अशब्दव्यावृत्तिग्रहणमन्तरेण शब्दत्वनिश्चयस्याऽसम्भवात् । तथा च विशेषाध्यवसायित्वेनाऽपायत्वमेवाऽस्य स्याद्, नाऽर्थावग्रहत्वम् । यदि च शाङ्घत्वादिव्याप्यजात्यपेक्षया शब्दत्वस्य सामान्यत्वमिति तद्रूपावगाहिज्ञानस्य सामान्यग्रहणत्वेनाऽर्थावग्रहत्वमिष्यते तदा 'शाङ्खोऽय'मिति ज्ञानस्याऽपि तदवान्तरविशेषापेक्षया सामान्यस्य शाङ्घत्वस्य ग्राहकत्वेनाऽर्थावग्रहत्वमेव स्यादित्यपायापलाप एव प्रसज्येतेति समाधत्ते
मैवम्, अशब्दव्यावृत्त्या विशेषावभासेनाऽस्याऽपायत्वात्, स्तोकग्रहण
'स्यान्मतम्'-"ननु प्रथमसमय एव रूपादिव्यपोहेन 'शब्दोऽयम्' इति प्रत्ययोऽर्थावग्रहत्वेन अभ्युपगम्यताम्, शब्दमात्रत्वेन सामान्यत्वात्, उत्तरकालं तु 'प्रायो माधुर्यादयः शङ्खशब्दधर्मा इह घटन्ते, न तु शाङ्गधर्माः खरकर्कशत्वादयः' इति विमर्शबुद्धिरीहा, तस्मात् 'शाङ्घ एवाऽयं शब्दः' इति तद्विशेषस्त्वपायोऽस्तु ।"-विशेषा० बृ० गा० २५४ ।
'मैवम, अशब्द'-"यस्माद् न रूपादिरयम्, तेभ्यो व्यावृत्तत्वेन गृहीतत्वात्, अतो 'नाऽशब्दोऽयम्' इति निश्चीयते । यदि तु रूपादिभ्योऽपि व्यावृत्तिर्गृहीता न स्यात्, तदा 'शब्दोऽयम्' इति निश्चयोऽपि न स्यादिति भावः । तस्मात् 'शब्दोऽयं नाऽशब्दः' इति विशेषप्रतिभास एवाऽयम् । तथा च सत्यस्याऽप्यपायप्रसङ्गतोऽवग्रहाभावप्रसङ्ग इति स्थितम् ।"-विशेषा० बृ० गा० २५४।
'स्तोकग्रहणम्'-"अथ परोऽवग्रहापाययोर्विषयविभागं दर्शयन्नाह-इदं शब्दबुद्धिमात्रकं शब्दमात्रस्तोकविशेषावसायित्वात् स्तोकविशेषग्राहकम्, अतोऽपायो न भवति, किन्तु अवग्रह