________________
अर्थावग्रहः
४९
कथमिति । अस्य सूत्रार्थ इत्यनेनाऽन्वयः । सूत्रार्थः = उक्तनन्द्यध्ययनसूत्रैकदेशार्थः । कथमित्याक्षेपे, विरोधादुक्तसूत्रार्थो न घटते इत्यर्थः । सूत्रार्थाघटने हेतुमाह - तत्रेति । 'तेन शब्द इत्यवगृहीत' इत्यस्मिन्नित्यर्थः ।
एकसामयिकेऽर्थावग्रहे नामाद्युल्लेखस्याऽसम्भवाद् न शब्दात्मकवस्तुनि तद्वाचकस्य 'शब्द'इत्येवंरूपस्य शब्दस्य योजनाऽवगृह्यते, किन्तु शब्दस्य यत् सामान्यमात्रं स्वरूपं तदेवाऽवान्तरसामान्यविशेष- शब्दत्वादिविनिर्मोकेण रूपरसादि - शब्दान्यविशेषव्यावृत्त्य - नाकलितरूपतयाऽवगृह्यते । तथाविधे चाऽवग्रहे शब्दवाच्यत्वेन शब्दात्मकवस्तु नाऽवभासते एव । केवलमवग्रहविषयवस्तुनः परिचयार्थं वक्त्रा = सूत्रकृतैव 'शब्द' इति भण्यते, तद्भणनेन [ज्ञायते यद् प्रतिपत्त्रा तद् अवगृहीतं ] यद् वस्तुस्थित्या 'शब्द' इत्येवंस्वरूपशब्दवाच्यम्, नाऽन्यद् रूपरसादीति समाधत्ते
न, 'शब्द:' इति वक्त्रैव भणनाद्, रूपरसादिविशेषव्यावृत्त्यनवधारणपरत्वाद् वा । वक्त्रैव = अवग्रहविषयवक्त्रा सूत्रकृतैव ।
अथवा तत्र 'शब्द' इति शब्दमात्रपरम् तेन च रूपरसादिभ्यः तस्य व्यावर्त्तकस्य शब्दत्वलक्षणावान्तरसामान्यविशेषस्य ग्रहणव्यवच्छेदः । तथा च रूपरसादिव्यावृत्तिमत्तया - ऽनवधृतं शब्दत्वेनाऽनिश्चितं वस्तुमात्रमवगृह्यते इति तदर्थ इत्याह—रूपरसादीति ।
किञ्च, शब्दवाच्यत्वेन 'शब्द' वस्तुनोऽवग्रहे भाने तस्य 'शब्दोऽयमित्याकारः स्यात् । ततश्च शब्दोल्लेखस्याऽऽन्तर्मुहूर्तिकत्वादेकसामयिकत्वं तस्य सिद्धान्तसिद्धं भज्येतेत्याह
यदि च 'शब्दोऽयमित्यध्यवसायोऽवग्रहे भवेत् तदा शब्दोल्लेखस्याऽऽन्तर्मुहूतिकत्वादर्थावग्रहस्यैकसामयिकत्वं भज्येत ।
भवन्तस्तु शब्दाद्युल्लेखरहितं सर्वथाऽमुं प्रतिपादयन्ति ततः कथं न विरोधः ? । " - विशेषा० बृ० गा० २५२ ।
' शब्दः' इति - '' अत्रोत्तरमाह- 'शब्दस्तेन अवगृहीतः' इति यदुक्तं तत्र 'शब्द:' इति सूत्रकारः प्रतिपादयति । अथवा शब्दमात्रं रूपरसादिविशेषव्यावृत्त्या अनवधारितत्वात् शब्दतयाऽनिश्चितं गृह्णाति इति एतावतांऽशेन 'शब्दस्तेन अवगृहीतः' इत्युच्यते, न पुनः शब्दबुद्ध्या 'शब्दोऽयम्' इत्यध्यवसायेन तच्छब्दवस्तु तेन अवगृहीतम्, शब्दोल्लेखस्य आन्तर्मुहूर्तिकत्वात्, अर्थावग्रहस्य तु एकसामयिकत्वादसम्भव एवाऽयमिति भावः । यदि पुनरर्थावग्रहे शब्दनिश्चयः स्यात् तदा अपाय एवाऽसौ स्यात् नत्वर्थावग्रहः, निश्चयस्याऽपायरूपत्वात् । " - विशेषा० बृ० गा०
२५३ ।