________________
सटीकजैनतर्कभाषायां योपयोगकाले चाऽर्थावग्रहकालादारभ्यैव व्यापारः । अर्थावबोधस्वभावे मनसि अर्थानवबोधस्वभावस्य व्यञ्जनावग्रहस्य न सम्भव इत्याह-मनुतेऽनिति । इदं च कर्तरि । करणे आहमन्यन्त इति । 'मनः'शब्दस्याऽन्वर्थाभिधानत्वेऽनुगुणं दृष्टान्तमाह-अर्थभाषणमिति । भाषाया इत्युपलक्षणमवध्यादिज्ञानादेरपि । तथा च यथा स्वाभिधेयानर्थान् भाषमाणैव भाषा, स्वविषयीभूतानर्थानवबुध्यमानान्येवाऽवध्यादिज्ञानानि स्वस्वरूपमासादयन्ति तथा स्वविषयभूतानर्थान् प्रथमसमयादारभ्य मन्वानमेव मनो भवति । ततश्चाऽर्थानुपलब्धिकालाभावाद् न मनसो व्यञ्जनावग्रहसम्भव इति ।
इत्थमुपपादितं नयनमनसोळञ्जनावग्रहासम्भवमुपसंहरतितदेवं नयनमनसोर्न व्यञ्जनावग्रह इति स्थितम् ।
अर्थावग्रहनिरूपणम् स्वरूपनामजातिक्रियागुणद्रव्यकल्पनारहितं सामान्यग्रहणमर्थावग्रहः ।
स्वरूपं च, नाम च, जातिश्च, क्रिया च, गुणश्च, द्रव्यं च स्वरूपनामजातिक्रियागुणद्रव्याणि, तेषां कल्पना = स्वरूपादिप्रकारेणाऽर्थावगाहिता, तया रहितं यत् सामान्यग्रहणम् = अवान्तरविशेषानवगाहि वस्तुसामान्यस्वरूपावगाहि ज्ञानं तद् अर्थावग्रह इत्यर्थः । अत्र स्वरूपेत्यादि सामान्यग्रहणमित्यन्तं लक्षणनिर्देशः, अर्थावग्रह इति लक्ष्यनिर्देशः ।
ननु स्वरूपनामादिकल्पनारहितार्थज्ञानस्याऽर्थावग्रहत्वे तद्विषयः स्वरूपनामादिरहितोऽवगृहीत इति प्राप्तम् । तथा च "से जहानामए केइ पुरिसे अव्वत्तं सदं सुणेज्जत्ति, तेणं सद्देत्ति उग्गहिए, न उण जाणइ के वेस सद्दा" इति नन्द्यध्ययनसूत्रे "तेणं सद्देत्ति उग्गहिए" इत्यनेन 'तेन प्रतिपत्त्राऽर्थावग्रहेण शब्दोऽवगृहीत' इति प्रतिपादितोऽर्थः शब्दोल्लेखाकलितो विरुद्धः स्यात्, तस्य शब्दाद्युल्लेखरहितत्वेनाऽभिमतार्थावग्रहविषयत्वस्याऽसम्भवादिति शङ्कते
कथं तर्हि 'तेन शब्द इत्यवगृहीत' इति सूत्रार्थः, तत्र शब्दाद्युल्लेखराहित्याभावादिति चेद्, नामजात्यादीनां कल्पना अन्तर्जल्पारूषितज्ञानरूपा, तया रहितमेवाऽर्थमर्थावग्रहेण गृह्णाति जीवः।" -विशेषा० बृ० गा० २५२ ।
'कथं तर्हि'-"यदि स्वरूपनामादिकल्पनारहितोऽर्थोऽर्थावग्रहस्य विषयः-इत्येवं व्याख्यायते भवद्भिः तर्हि यन्नन्द्यध्ययनसूत्रे (सू० ३६.) प्रोक्तम्-‘से जहानामए केइ पुरिसे अव्वत्तं सदं सुणेज्जा, तेणं सद्देत्ति उग्गहिए, न उण जाणइ के वेस सद्दाइ त्ति' तदेतत् कथमविरोधेन नीयते ? अस्मिन्नन्दिसूत्रे अयमर्थः प्रतीयते-यथा तेन प्रतिपत्ता अर्थावग्रहेण शब्दोऽवगृहीत इति ।