________________
मनसोऽप्राप्यकारित्वसिद्धिः
४७ एव चक्षुरिन्द्रियस्येवाऽर्थावग्रहस्यैव समुत्पादो भवति । श्रोत्रादीन्द्रियस्य तु तादृशक्षयोपशमपाटवाभावेन प्रथममर्थानुपलब्धिसम्भवेन प्रथमं व्यञ्जनावग्रहस्य युक्तत्वादित्याह-क्षयोपशमेति।
ननु मनः श्रोत्रादीन्द्रियजज्ञानेऽपि व्यापिपर्तीति तत्रापि प्रथमर्थावग्रह एव स्यादित्यत आह
श्रोत्रादीन्द्रियव्यापारकालेऽपि मनोव्यापारस्य व्यञ्जनावग्रहोत्तरमेवाऽभ्युपगमात् । 'मनुतेऽर्थान् मन्यन्तेऽर्था अनेनेति वा मन' इति मनःशब्दस्याऽन्वर्थत्वाद्, अर्थभाषणं विना भाषाया इव अर्थमननं विना मनसोऽप्रवृत्तेः ।
श्रोत्रादीति । श्रोत्रादीन्द्रियजज्ञानस्थले न पूर्वं मनसो व्यापारः, किन्तु व्यञ्जनावग्रहानन्तरमेवेति तदनन्तरमेवाऽर्थावग्रहो न प्रथमसमय इति ।
'मनः'शब्दस्याऽन्वर्थताऽप्येवं सत्येव घटते इत्यतः तस्य स्वविषयग्रहणे श्रोत्रादीन्द्रि
'श्रोत्रादीन्द्रिय'-"इदमुक्तं भवति-न केवलं मनसः केवलावस्थायां प्रथममर्थावग्रह एव व्यापारः, किन्तु श्रोत्रादीन्द्रियोपयोगकालेऽपि तथैव । तथाहि-श्रोत्रादीन्द्रियोपयोगकाले व्याप्रियते मनः केवलमर्थावग्रहादेव आरभ्य, न तु व्यञ्जनावग्रहकाले । अर्थानवबोधस्वरूपो हि व्यञ्जनावग्रहः तदवबोधकारणमात्रत्वात् तस्य, मनस्तु अर्थावबोधरूपमेव 'मनुतेऽर्थान् मन्यन्ते अर्था अनेन इति वा मनः' इति सान्वर्थाभिधानाऽभिधेयत्वात् । किञ्च, यदि व्यञ्जनावग्रहकाले मनसो व्यापारः स्यात् तदा तस्याऽपि व्यञ्जनावग्रहसद्भावादष्टाविंशतिभेदभिन्नता मतेविशीर्येत, तस्मात् प्रथमसमयादेव तस्याऽर्थग्रहणमेष्टव्यम् । यथा हि स्वाभिधेयानर्थान् भाषमाणैव भाषा भवति, नाऽन्यथा, यथा च स्वविषयभूतानर्थानवबुध्यमानान्येवाऽवध्यादिज्ञानान्यात्मलाभं लभन्ते, अन्यथा तेषामप्रवृत्तिरेव स्यादिति, एवं स्वविषयभूतानर्थान् प्रथमसमयादारभ्य मन्वानमेव मनो भवति, अन्यथा अवध्यादिवत् तस्य प्रवृत्तिरेव न स्यात् । तस्मात् तस्याऽनुपलब्धिकालो नास्ति, तथा च न व्यञ्जनावग्रह इति स्थितम् ।"-विशेषा० बृ० गा० २४२, २४३ ।।
'स्वरूप'-"ग्राह्यवस्तुनः सामान्य-विशेषात्मकत्वे सत्यप्यर्थावग्रहेण सामान्यरूपमेवाऽर्थं गृह्णाति, न विशेषरूपम्-अर्थावग्रहस्यैकसामयिकत्वात्, समयेन च विशेषग्रहणायोगादिति । सामान्यार्थश्च कश्चिद् ग्राम-नगर-वन-सेनादिशब्देन निर्देश्योऽपि भवति, तद्व्यवच्छेदार्थमाहस्वरूपनामादिकल्पनारहितम्, आदिशब्दात् जाति-क्रिया-गुण-द्रव्यपरिग्रहः । तत्र रूपरसाद्यर्थानां य आत्मीयचक्षुरादीन्द्रियगम्यः प्रतिनियतः स्वभावः तत् स्वरूपम् । रूपरसादिकस्तु तदभिधायको ध्वनि म । रूपत्व-रसत्वादिका तु जातिः । प्रीतिकरमिदं रूपं पुष्टिकरोऽयं रसः इत्यादिकस्तु शब्दः क्रियाप्रधानत्वात् क्रिया । कृष्ण-नीलादिकस्तु गुणः । पृथिव्यादिकं पुनर्द्रव्यम् । एषां स्वरूप