________________
४६
सटीकजैनतर्कभाषायां शृणु, ग्रहणं हि मनः, न तु ग्राह्यम् । ग्राह्यवस्तुग्रहणे च व्यञ्जनावग्रहो भवतीति न मनोद्रव्यग्रहणे तदवकाशः । सन्निहितहृदयादिदेशग्रहवेलायामपि नैतदवकाश:बाह्यार्थापेक्षयैव प्राप्यकारित्वाप्राप्यकारित्वव्यवस्थानात्, क्षयोपशमपाटवेन मनसः प्रथममर्थानुपलब्धिकालासम्भवाद् वा ।
ग्रहणमिति । गृह्यते = अवगम्यते शब्दादिरर्थोऽनेनेति व्युत्पत्त्या यतो ग्रहणं मनः ततो न तदवकाशः = व्यञ्जनावग्रहावकाश इति सम्बन्धः । स्वसन्निहितहृदयादिचिन्तनवेलायां सम्बन्धस्य व्यञ्जनावग्रहव्यवहारनिबन्धनस्य भावे कथं न व्यञ्जनावग्रहावकाश इत्यपेक्षायामाहबाह्येति ।
अपि चे मनसः स्वकीयहृदयादिचिन्तनवेलायां प्राप्यकारित्वसम्भवेऽपि व्यञ्जनावग्रहस्य न सम्भवः, यतः क्षयोपशमपाटवेन तस्य प्रथममर्थानुपलब्धिकालासम्भवेन प्रथमसमये
'इति चेत्, शृणु'-"तदेवं प्रकारद्धयेन मनसः परेण व्यञ्जनावग्रहे समर्थिते आचार्यः प्रथमपक्षे तावत् प्रतिविधानमाह-चिन्ताद्रव्यरूपं मनो न ग्राह्यम्, किन्तु गृह्यते अवगम्यते शब्दादिरर्थोऽनेन इति ग्रहणम् अर्थपरिच्छेदे करणम् इत्यर्थः । ग्राह्यं तु मेरुशिखरादिकं मनसः सुप्रतीतमेव । अतः कोऽवसर: तस्य करणभूतस्य मनोद्रव्यराशेः व्यञ्जनावग्रहे अधिकृते ? । न कोपि इत्यर्थः । ग्राह्यवस्तुग्रहणे हि व्यञ्जनावग्रहो भवति । न च मनोद्रव्याणि ग्राह्यरूपतया गृह्यन्ते।"-विशेषा० बृ० गा० २४० ।
"या च मनसः प्राप्यकारिता प्रोक्ता साऽपि न युक्ता, स्वकायहृदयादिको हि मनसः स्वदेश एव । यच्च यस्मिन् देशेऽवतिष्ठते तत् तेन सम्बद्धमेव भवति कस्तत्र विवादः ? । किं हि नाम तद्वस्त्वस्ति यद् आत्मदेशेनाऽसम्बद्धम् ? एवं हि प्राप्यकारितायामिष्यमाणायां सर्वमपि ज्ञानं प्राप्यकार्येव, पारिशेष्याद् बाह्यार्थापेक्षयैव प्राप्यकारित्वाप्राप्यकारित्वचिन्ता युक्ता ।"-विशेषा० बृ० गा० २४१ ।
क्षयोपशमपाटवेन'-"भवतु वा मनसः स्वकीयहृदयादिचिन्तायां प्राप्यकारिता तथापि न तस्य व्यञ्जनावग्रहसंभव इति दर्शयन्नाह-यस्मात् मनसः प्रथमसमय एव अर्थावग्रहः समुत्पद्यते न तु श्रोत्रादीन्द्रियस्येव प्रथमं व्यञ्जनावग्रहः, तस्य हि क्षयोपशमापाटवेन प्रथममर्थानुपलब्धिकालसम्भवात् युक्तो व्यञ्जनावग्रहः, मनसस्तु पटुक्षयोपशमत्वात् चक्षुरादीन्द्रियस्येव अर्थानुपलम्भकालस्याऽसंभवेन प्रथममेव अर्थावग्रह एव उपजायते । अत्र प्रयोगः-इह यस्य ज्ञेयसंबन्धे सत्यप्यनुपलब्धिकालो नास्ति न तस्य व्यञ्जनावग्रहो दृष्टः, यथा चक्षुषः, नास्ति चार्थसंबन्धे सत्यनुपलब्धिकालो मनसः, तस्माद् न तस्य व्यञ्जनावग्रहः, यत्र तु अयमभ्युपगम्यते न तस्य ज्ञेयसंबन्धे सत्यनुपलब्धिकालासंभवः, यथा श्रोत्रस्येति व्यतिरेकः । तस्मादुक्तप्रकारेण मनसो न व्यञ्जनावग्रहसम्भवः ।"-विशेषा० बृ० गा० २४१ ।