________________
मनसोऽप्राप्यकारित्वसिद्धिः ऽसङ्ख्येयसमयमानत्वात्, प्रतिसमयं च मनोद्रव्याणां ग्रहणाद् विषयमसम्प्राप्तस्याऽपि मनसो, देहादनिर्गतस्य तस्य च स्वसन्निहितहृदयादिचिन्तनवेलायां कथं व्यञ्जनावग्रहो न भवतीति चेतः
__ प्रतिसमयमिति । छद्मस्थोपयोगसम्बन्धिष्वसङ्ख्यसमयेषु प्रत्येकं तत्तत्समयमित्यर्थः । ग्रहणादिति । जीवेन ग्रहणाद् । इत्थं च विषयं = मेर्वादिकं प्रति, असम्प्राप्तस्याऽपि = अगतस्याऽपि, मनसः कथं व्यञ्जनावग्रहो न भवतीति सम्बन्धः । तथा च विषयासम्प्राप्तावपि मनसो व्यञ्जनावग्रह उक्तदिशा स्यादेवेति भावः ।।
___ यदि च मनसो विषयप्राप्तौ सत्यामेव व्यञ्जनावग्रहो, नान्यथा, श्रोत्रादीन्द्रियेष्वेवमेव दर्शनादिति भवतां मतिः, तदापि स्वस्थानस्थितस्याऽपि मनसो देहादनिर्गस्याऽपि हृदयादिकमतीवसन्निहितत्वादतिसम्बद्धं स्वकार्य वा चिन्तयता, ज्ञेयेन स्वकायस्थितहृदयादिना सम्बन्धलक्षणो व्यञ्जनावग्रहः स्यादेवेत्याह-देहादिति । देहादनिर्गतस्य = शरीराद् बहिरनिर्गतस्य, तस्य = मनसः । स्वसन्निहितेति = स्वाधिष्ठितकायस्थितत्वेन स्वातिसम्बद्धेत्यर्थः । हृदयादीत्यादिपदात् स्वाधिष्ठितकायादेरप्युपग्रहः । कथमिति । अन्यत्र व्यञ्जनावग्रहव्यवहारनिबन्धनस्याऽतिसम्बद्धत्वस्याऽत्राऽपि सद्भावाद् व्यञ्जनावग्रहः स्यादेवेति भावः ।
चिन्ताद्रव्यमनसो ग्रहणत्वमेव न ग्राह्यत्वम् । ग्राह्यवस्तुग्रहणे एव व्यञ्जनावग्रहोऽधिकृतः, स च बाह्यवस्तुमेरुशिखरादिग्रहणे तेन समं मनसः प्राप्तौ सत्यामेव सम्भवी, मनोद्रव्यं तु न ग्राह्यतया गृह्यते इति तत्सम्बन्धे व्यञ्जनावग्रहत्वं न युक्तिसङ्गतम् । स्वकायसन्निहितहृदयादिकं सर्वदैव सन्निहितम्, न तु सर्वदाऽऽत्मप्रदेशेन सम्बद्धं तत् कदाप्यसम्बद्धम्, येन तद्व्यतिरेके तदग्रहणे तस्मिन् तद्ग्रहणे तन्निबन्धनं व्यञ्जनावग्रहमननं युज्येताऽपि । यतः इन्द्रियादेः प्राप्याप्राप्यकारित्वविचारो बाह्यविषयापेक्षयैवाऽधिकृतः, न तु यद् अन्तः सदैव सन्निहितं तदपेक्षयेति समाधत्ते
समयान् यावद् गृह्यमाणानि शब्दादिपरिणतद्रव्याणि, तत्सम्बन्धो वा व्यञ्जनावग्रहः तथाऽत्रापि ।" विशेषा० बृ० गा० २३७-८ ।
"तदेवं विषयासंप्राप्तावपि भङ्ग्यन्तरेण मनसो व्यञ्जनावग्रहः किल परेण समर्थितः । साम्प्रतं विषयसंप्राप्त्यापि तस्य तं समर्थयन्नाह-शरीराद् अनिर्गतस्याऽपि मेर्वाद्यर्थमगतस्याऽपि स्वस्थानस्थितस्याऽपि स्वकाये स्वकायस्य वा हृदयादिकमतीव सन्निहितत्वादतिसम्बद्धं विचिन्तयतो मनसो योऽसौ ज्ञेयेन स्वकायस्थितहृदयादिना सम्बन्धः तत्प्राप्तिलक्षणः तस्मिन्नपि ज्ञेयसम्बन्धे व्यञ्जनावग्रह: मनसः" युज्यत एव ।-विशेषा० बृ० गा० २३९ ।