________________
सटीकजैनतर्कभाषायां
स्त्यानर्द्धिनिद्रोदये = गाढनिद्रोदये । एतदनन्तरं प्रेक्षणकनृत्यस्थानादिगतस्येति दृश्यम् । स्त्यानर्द्धिनिद्रोदये' वर्त्तमानस्य प्राणिनो द्विरददन्तोत्पाटनादिकं मांसाद्यभक्ष्यभक्षणादिकं च कुर्वतोऽस्वप्नमपि स्वप्नं मन्यमानस्य व्यञ्जनावग्रहो न मनसः, किन्तु प्राप्यकारिणां स्वस्वविषये व्याप्रियमाणानां श्रवणरसनघ्राणस्पर्शनानामेव । तथा प्रेक्षणकनृत्यस्थानादिगतस्य गाढनिद्रोदयवशीभूतस्य तस्य गीतादिश्रवणे श्रवणेन्द्रियस्यैव व्यञ्जनावग्रहः, यत एवम्भूतस्याऽपि बधिरस्य न भवत्येव गीतादिश्रवणम्, मनसा तु तद्भावे बधिरस्याऽपि मनसः सद्भावात् तद् भवेदिति न मनोव्यञ्जनावग्रहता तद्व्यञ्जनावग्रहस्य सतोऽपि । नाऽतोऽपि मनसः प्राप्य - कारितेति समाधत्ते -
न, तदा स्वप्नाभिमानिनोऽपि श्रवणाद्यवग्रहेणैवोपपत्तेः ।
४४
तदा स्त्यानर्द्धिनिद्रोदयसमये ।
=
ननु 'भविष्यत् च्यवनं जानाति, भूतं च च्यवनमवगच्छति, वर्त्तमानच्यवनं ३ तु न जानाती'त्याद्यर्थप्रतिपादनपरात् 'च्यवमानो न जानातीतिवचनात् सिद्धान्ते सर्वोऽपि च्छद्मस्थोपयोगोऽसङ्ख्येयैः समयैर्न तु एकद्वयादिसमयैः ४ । एवं चोपयोगसम्बन्धिनोऽसङ्ख्येयाः समयाः सिद्धाः । तेषु सर्वेषु समयेषु प्रत्येकमनन्तानि मनोद्रव्याणि मनोवर्गणाभ्यो गृह्णाति " जीवः । इत्थं च यानि मनोद्रव्याणि जीवगृहीतानि, यश्च तत्सम्बन्धः, स व्यञ्जनावग्रह एव, यथा श्रोत्रा - दीन्द्रियेण गृह्यमाणानि शब्दादिपरिणतद्रव्याणि तत्सम्बन्धो वा व्यञ्जनावग्रह इति मनसः स्यादेव व्यञ्जनावग्रह इति शङ्कते -
ननु 'च्यवमानो न जानातीत्यादिवचनात् सर्वस्याऽपि च्छद्मस्थोपयोगस्या
'ननु च्यवमानो न जानाति' - 'यस्मात् कारणात् 'च्यवमानो न जानाति' इत्यादिवचनात् सर्वोपि च्छद्मस्थोपयोगोऽसङ्ख्येयैः समयैर्निर्दिष्टः सिद्धान्ते, न तु एकद्वयादिभिः । यस्माच्च तेषु उपयोगसम्बन्धिषु असङ्ख्येयेषु समयेषु सर्वेष्वपि प्रत्येकमनन्तानि मनोद्रव्याणि मनोवर्गणाभ्यो गृह्णाति जीवः, द्रव्याणि च तत्सम्बन्धो वा प्रागत्रैव भवद्भिर्व्यञ्जनमुक्तम् । तेन कारणेन तत् तादृशं द्रव्यं तत्सम्बन्धो वा व्यञ्जनावग्रह इति युज्यते मनसः । यथाहि श्रोत्रादीन्द्रियेण असङ्ख्येयान्
१. यस्यां निद्रायां वर्त्तमानो जीवो दिवा गाढं चिन्तितं कार्यं निष्पादयति सा निद्रा स्त्यानद्धिरित्युच्यते ।
२. भवान्तरगमनम् ।
३. वर्त्तमानच्यवनस्यैकसामयिकत्वात् ।
४. समयः सूक्ष्मातिसूक्ष्मः कालविशेषः । तस्येयं व्याख्या-यं कालखण्डं केवल्यपि स्वप्रज्ञया द्विधा कर्त्तुं न शक्नुयात् स कालखण्डः समयः । अक्षिनिमीलनेऽप्यसङ्ख्येयाः समया व्यतीता भवन्ति ।
५. जीवो विचारार्थं मनोवर्गणातो मनोद्रव्याणि गृहीत्वा मनस्त्वरूपेण परिणमय्य मुञ्चति ।