________________
मनसोऽप्राप्यकारित्वसिद्धिः
४३ क्रियाफलं = कामिनीनिधुवनक्रियाकार्य, व्यञ्जनविसर्गलक्षणं = शुक्रस्खलनरूपम् । जाग्रद्दशायामपि प्रबलवेदोदयात् तीव्रमोहस्य निरन्तरकामिनीध्यानप्राबल्यात् प्रत्यक्षामिव कामिनीं पश्यतो, दुष्टाध्यवसायसमुत्थकल्पनाजालेनाऽसतीमपि सतीमिव तां परिष्वजतो, अपरिभुक्तामपि परिभुक्तां मन्यमानस्य पुंसः तीव्राध्यवसायादेव कामिनीसम्पर्कमन्तरेणाऽपि व्यञ्जनविसर्गो यथा जायते, तथा स्वप्नेऽपि कामिनीसम्पर्क विनैव तथाविधाध्यवसायत एव रेतोविसर्गः-'यत्र रेतोविसर्गः तत्र कामिनीसम्पर्क' इत्यत्रोक्तदिशा व्यभिचारस्य स्फुटमुपलब्धेः, स्वप्ने रेतोविसर्गसमनन्तरमेव प्रबुद्धेन पुंसा सम्यगवलोकमानेनाऽपि कामिन्या अनवलोकनेन स्वप्नानुभूतकामिनीकृतनखदन्तच्छेदाद्यदर्शनेन च तदानीं सन्निहितैव कामिनीत्यस्य वक्तुमशक्यत्वाच्चेति समाधत्ते
तत् तीव्राध्यवसायकृतम्, न तु कामिनीनिधुवनक्रियाकृतमिति को दोषः ? तत् = रेतोविसर्गरूपं फलम् । को दोष इति । एवमभ्युपगमे न कोऽपि दोष इत्यर्थः ।
ननु स्त्यानद्धिनिद्रोदयकः पुमान् तदानीं यत्किमपि करोति तत् स्वप्नकृतमेवाऽसौ जानाति, यतः तदानीमस्यैवमभिमानः प्रादुरस्ति-द्विरददन्तोपाटनादिकं सर्वमिदमहं स्वप्ने पश्यामीति । तथा च तस्य द्विरददन्तोत्पाटनादिक्रियाकलापकाल: स्वप्नकाल एव, तदानीमस्य क्रिया मनोविकल्पपूर्विकैवेति मनसः प्राप्यकारित्वम्, ततो मनसो व्यञ्जनावग्रहः सिद्धिपथमेवैति । तदानीं च यद् गीतादिकं शृणोति तत्रापि मनस एव व्यापार इति मनोविकल्पपूर्वकात् तत्कालीनगीतादिश्रवणादपि मनः प्राप्यकारि सिद्ध्यद् मनोव्यञ्जनावग्रहं साधयदेव भविष्यतीति शङ्कते
ननु स्त्यानद्धिनिद्रोदये गीतादिकं शृण्वतो व्यञ्जनावग्रहो मनसोऽपि भवतीति चेद्,
'ननु स्त्यानधि'-"ननु स्त्यानद्धिनिद्रोदये वर्तमानस्य द्विरददन्तोत्पाटनादिप्रवृत्तस्य स्वप्ने मनसः प्राप्यकारिता तत्पूर्वको व्यञ्जनावग्रहश्च सिद्ध्यति । तथाहि-स तस्यामवस्थायां "द्विरददन्तोत्पाटनादिकं सर्वमिदमहं स्वप्ने पश्यामि' इति मन्यते इत्ययं स्वप्नः, मनोविकल्पपूर्विकां च दशनाधुत्पाटनक्रियामसौ करोति इति मनसः प्राप्यकारिता तत्पूर्वकश्च मनसो व्यञ्जनावग्रहो भवत्येव इत्याशङ्क्याह-स्त्यानगृद्धिनिद्रोदये पुनर्वर्तमानस्य जन्तोः मांसभक्षण-दशनोत्पाटनादि कुर्वतो माढनिद्रोदयपरवशीभूतत्वेन स्वप्नमिव मन्यमानस्य स्यात् व्यञ्जनावग्रहः, न वयं तत्र निषेद्धारः । सिद्धं तर्हि परस्य समीहितम् । सिद्ध्येत् यदि सा व्यञ्जनावग्रहता मनसो भवेत्, न पुनः सा तस्य । कस्य तर्हि सा? सा खलु प्राप्यकारिणां श्रवणरसनघ्राणस्पर्शनानाम् । इदमुक्तं भवतिस्त्यानद्धिनिद्रोदये प्रेक्षणकरङ्गभूम्यादौ गीतादिकं शृण्वतः श्रोत्रेन्द्रियस्य व्यञ्जनावग्रहो भवति ।"विशेषा० बृ० गा० २३४ ।