________________
४२
• सटीकजैनतर्कभाषायां दृश्येतां स्वप्नविज्ञानकृतौ तौ, स्वप्नविज्ञानकृतं क्रियाफलं तु तृप्त्यादिकं नास्ति, यतो विषयप्राप्तिरूपा प्राप्यकारिता मनसो युज्यतेति ब्रूमः ।
स्वप्नविज्ञानकृतं तृप्त्यादिकक्रियाफलं नाऽस्तीत्यर्थः । तृप्तीत्यनेन स्वप्नोपलभ्यमानभोजनादिक्रियाजन्यानुग्रहस्य कथनम्, आदिपदात् शत्रुकृतस्वशिर:कृन्तनजन्यस्य शिरोधरादितः शोणितादिनिस्यन्दनलक्षणोपघातस्य परिग्रहः ।
____ननु जाग्रति केलिगृहादावेकान्तगृहे रूपयौवनलावण्यसम्भृतया कामिन्या निधुवनक्रीडां कुर्वाणस्य कामिनो व्यञ्जनविसर्गः प्राप्तकामिनीसम्पर्कादेव भवति, नान्यथेति 'यत्र शुक्रविसर्गः तत्राऽवश्यं कामिनीसम्पर्क' इति व्याप्तिरवध्रियते । स्वप्ने च जाग्रदवस्थानुभूतकामिनी तत्समानगुणामन्यां वा कामिनी निधुवनक्रीडाकलितामतिदृढालिङ्गननिपीडितकुचतटामनुभवतो यूनो यत् शुक्रस्खलनं भवति तद् नाऽन्तरेण कामिनीसम्पर्केणेति तत्प्राप्तिरवश्यमेवेति कथं न प्राप्यकारित्वं मनसः ? क्रियाफलस्य शुक्रविसर्गस्य स्वप्नव्यपगमानन्तरमप्युपलम्भादित्याशङ्कते
क्रियाफलमपि स्वप्ने व्यञ्जनविसर्गलक्षणं दृश्यत एवेति चेत्;
'दृश्येताम्'-"अत्रोत्तरमाह-स्वप्ने सुखानुभवादिविषयं विज्ञानं स्वप्नविज्ञानं तस्मादुत्पद्यमाना हर्षविषादादयो न विरुद्ध्यन्ते-न तान् वयं निवारयामः जाग्रदवस्थाविज्ञानहर्षादिवत् । तथाहि-दृश्यन्ते जाग्रदवस्थायां केचित् स्व[य]मुत्प्रेक्षितसुखानुभवादिज्ञानाद् हृष्यन्तः, द्विषन्तो वा, ततश्च दृष्टस्य निषेद्धुमशक्यत्वात् स्वप्नविज्ञानादपि नैतनिषेधं ब्रूमः । तर्हि किमुच्यते भवद्भिः ? क्रिया भोजनादिका, तस्याः फलं तृप्त्यादिकम्, तत्पुनः स्वप्नविज्ञानाद् नास्त्येव, इति ब्रूमः । यदि ह्येतत् तृप्त्यादिकं भोजनादिक्रियाफलं स्वप्नविज्ञानाद् भवेत् तदा विषयप्राप्तिरूपा प्राप्यकारिता मनसो युज्यते, न चैतदस्ति, तथोपलम्भस्यैवाऽभावात् ।"-विशेष० बृ० गा० २२७ ।
__ "क्रियाफलमपि स्वप्ने'-"क्रियाफलं जाग्रदवस्थायामपि परो दर्शयन्नाह-यत्र व्यञ्जन(शुक्र)विसर्गः तत्र योषित्संगमेनाऽपि भवितव्यम्, यथा वासभवनादौ, तथा च स्वप्ने, ततोऽत्रापि योषित्प्राप्त्या भवितव्यम् इति कथं न प्राप्यकारिता मनसः ? ।"-विशेषा० बृ० गा० २२८ ।
"अथ योषित्संगमे साध्ये व्यञ्जनविसर्गहेतोरनैकान्तिकतामुपदर्शयन्नाह-स्वप्ने योऽसौ व्यञ्जनविसर्गः स तत्प्राप्तिमन्तरेणापि 'तां कामिनीमहं परिषजामि' इत्यादिस्वयमुत्प्रेक्षिततीव्राध्यवसायकृतो वेदितव्यः । जाग्रतोऽपि तीव्रमोहस्य प्रबलवेदोदययुक्तस्य कामिनी स्मरतः दृढं ध्यायत: प्रत्यक्षामिव पश्यतो बुद्ध्या परिषजतः परिभुक्तामिव मन्यमानस्य यत् तीव्राध्यवसानम्, तस्मात् यथा व्यञ्जनविसर्गो भवति तथा स्वप्नेऽपि, अन्यथा तत्क्षण एव प्रबुद्धः सन्निहितां प्रियतमामुपलभेत, तत्कृतानि च स्वप्नोपलब्धानि नखदन्तपदादीनि पश्येत्, न चैवम् ।"-विशेषा० बृ० गा० २२९ ।