________________
मनसोऽप्राप्यकारित्वसिद्धिः
दुःखद्वेषलिङ्गविषादस्य च दर्शनेनाऽनुग्रहोपघातस्य भावात् । यतः
स्वप्ने दृष्टो मयाऽद्य त्रिभुवनमहितः पार्श्वनाथः शिशुत्वे, द्वात्रिंशद्भिः सुरेन्द्रैरहमहमिकया स्नाप्यमानः सुमेरौ । तस्माद् मत्तोऽपि धन्यं नयनयुगमिदं येन साक्षात् स दृष्टो, द्रष्टव्यो यो महीयान् परिहरति भयं देहिनां संस्मृतोऽपि ॥ एतत्पद्यतो विबुद्धस्य स्वप्नानुभूतसुखरागलिङ्गहर्षस्य, तथाप्राकारत्रयतुङ्गतोरणमणिप्रेङ्खत्प्रभाव्याहता,
नष्टाः क्वाऽपि रवेः करा द्रुततरं यस्यां प्रचण्डा अपि । तां त्रैलोक्यगुरोः सुरेश्वरवतीमास्थायिकामेदिनीं,
हा ! यावत् प्रविशामि तावदधमा निद्रा क्षयं मे गता ॥
इत्यस्मात् पद्याद् विबुद्धस्य स्वप्नानुभूतद्ः खद्वेषलिङ्गविषादस्य चाऽवगतेरित्याशङ्कतेननु स्वप्नानुभूतजिनस्नात्रदर्शन - समीहितार्थालाभयोरनुग्रहोपघातौ विबुद्धस्य सतो दृश्येते एवेति चेद्,
स्वप्नानुभूतजिनस्नात्रदर्शनतोऽनुग्रहः स्वप्नानुभूतसमीहितार्थालाभत उपघातश्च, जाग्रद्दशामुपगतस्य सतः पुरुषस्योपलभ्येते एवेत्यर्थः ।
विबुद्धस्य सतः
४१
=
सुखानुभवादिविषयक विज्ञानलक्षणात् स्वप्नज्ञानादुत्पद्यमाना हर्षविषादादयो नाऽपलपितुं शक्याः । जाग्रद्दशायामपि केषाञ्चिद् वस्तुत इष्टविषयस्याऽभावेऽपि स्वोत्प्रेक्षितसुखानुभवादिविषयकज्ञानाद् हर्षस्य, द्विष्टविषयस्याऽभावेऽपि स्वोत्प्रेक्षितद्वेषविषयानुभवविज्ञानाद् दुःखस्य भावादिति स्वप्नविज्ञानकृतावनुग्रहोपघातौ स्यातां नाम । भोजनादिक्रियाफलं तु तृप्त्यादिकं स्वप्नविज्ञानाद् न भवत्येव, स्वप्ने सम्यगोदनमोदकादिभोजनादिकमात्मीयमनुभूय विबुद्धस्य भोजनफलतृप्त्यादिलक्षणानुग्रहादेरदर्शनात् । स्वप्नविज्ञानात् तद्भावे तु कल्पेताऽपि मनसः प्राप्तिकारिता, न चैवमिति समाधत्ते
-
'ननु स्वप्नानु० ' - ' अत्र विबुद्धस्य सतस्तद्गतानुग्रहोपघातानुपलम्भादित्यस्य हेतोरसि - द्धतोद्भावनार्थं परः प्राह - इह कस्यचित्पुरुषस्य स्वप्नोपलम्भानन्तरं विबुद्धस्य सतः स्फुटं दृश्यन्ते हर्षविषादादयः । तत्र—'स्वप्ने दृष्टे...' (रत्नप्रभावद् ) इत्यादिस्वप्नानुभूतसुखरागलिङ्गं हर्षः, तथा 'प्राकारत्रय....' (रत्नप्रभावद् ) इत्यादिकः स्वप्नानुभूतदुःखद्वेषलिङ्गं विषादः इति विबुद्धस्याऽनुग्रहोपघातानुपलम्भात् इत्यसिद्धो हेतुः । " - विशेषा० बृ० गा० २२६ ।