________________
सटीकजैनतर्कभाषायां
ननु यदि मनो विषयं प्राप्य न परिच्छिनत्ति तदा कथं प्रसुप्तस्य 'मेर्वादौ गतं मे मन' इति प्रत्यय इति चेद्,
४०
अत्र—–“मनः-विषयं प्राप्य परिच्छिनत्ति - प्रसुप्तस्य 'मेर्वादौ गतं मे मन' इति प्रत्ययस्य तथैवोपपत्तेरिति प्रयोगो ज्ञेयः ।
प्रसुप्तस्य स्वस्वप्नानुभवदशायां भवति प्रतीतिः 'अहमिदानीं मेरुशिखरेऽनुपमकुसुमपरिमलामोदमनुभवन्नस्मी 'ति, परं तच्छरीरं शयनदेशस्थितमेव तन्निकटसंस्थितैः सर्वैरपि प्रमातृभिरनुभूयते इत्यवश्यमेवाऽभ्युपगन्तव्यम् । यदुत तच्छरीरं तद्देशस्थितमेव मेरुशिखरगततया प्रतीयते इति तज्ज्ञानं भ्रमो यथा, तथा मनोऽपि शरीरान्तर्गतमेव मेर्वादिगततया प्रतीयते इति तज्ज्ञानमसत्यमेवेति नाऽतो मनसो प्राप्यकारित्वसिद्धिरिति समाधत्ते
न, मेर्वादौ शरीरस्येव मनसो गमनस्वप्नस्याऽसत्यत्वाद्,
शरीरमपि सुप्तस्य मेरुदेशादिगमनस्वप्नदर्शनसमये मेर्वादौ गच्छत्येवेति दृष्टान्तासिद्धिरित्याशङ्कायामाह—
अन्यथा विबुद्धस्य कुसुमपरिमलाद्यध्वजनितपरिश्रमाद्यनुग्रहोपघातप्रसङ्गात् ।
अन्यथा = तदानीं शरीरस्य मेर्वादिदेशगमने विबुद्धस्य = स्वप्नमनुभूय प्रबोधदशामुपगतस्य, कुसुमपरिमलाघ्राणजनितामन्दानन्दलक्षणानुग्रहस्याऽतिदूरमेरुशिखरगमनागमनप्रयुक्तातिशीघ्रायासभ्रान्तशरीराङ्गोपाङ्गपीडाप्रभवदुः र दुःखौघलक्षणोपघातस्य च प्रसङ्गात् । न च तदानीं कुसुमपरिमलकणिकाऽप्याघ्रायते, न वाऽध्वजपरिश्रमलेशोऽपि समस्तीति, न स्वप्नकाले मेर्वादौ शरीरगमनम्, न वा मनसोऽपि गमनमित्यप्राप्यकार्येव मन इत्यर्थः ।
ननु विबुद्धस्याऽनुग्रहोपघाताभावात् स्वप्नस्याऽसत्यत्वमिति न ततो मनसो मेरुगमनसिद्धिरिति भवदभिप्रायो न युक्तो - विबुद्धस्य स्वप्नानुभूतसुखरागलिङ्गहर्षस्य स्वप्नानुभूत
'ननु यदि ' - " ननु जाग्रदवस्थायां मा भूद् मनसो विषयप्राप्तिः, स्वापावस्थायां तु भवत्वसौ अनुभवसिद्धत्वात्-तथाहि 'अमुत्र मेरुशिखरादिगतजिनायतनादौ मदीयं मनो गतम्' इति सुतैः स्वप्नेऽनुभूयत एव - इत्याशङ्क्य स्वप्नेऽपि मनसः प्राप्यकारितामपाकर्तुमाह- इह 'मदीयं मनोऽमुत्र गतम्' इत्यादिरूपो यः सुप्तैरुपलभ्यते स्वप्नः, स यथोपलभ्यते न तथारूप एव, तदुपलब्धस्य मनोमेरुगमनादिकस्याऽर्थस्याऽसत्यत्वात् । कथम् ? यथा कदाचिदात्मीयं मनः स्वप्ने मेर्वादौ गतं कश्चित् पश्यति, तथा कोऽपि शरीरमात्मानमपि नन्दनतरुकुसुमावचयादि कुर्वन्तं तद्गतं पश्यति, न च तत् तथैव, इह स्थितैः सुप्तस्य तस्याऽत्रैव दर्शनात्, द्वयोश्चाऽऽत्मनोरसम्भवात्, कुसुमपरिमलाद्यध्वजनितपरिश्रमाद्यनुग्रहोपघाताभावाच्च । - विशेषा० बृ० गा० २२४ ।