________________
३१
मनसोऽप्राप्यकारित्वसिद्धिः
मृतनष्टादिवस्तुचिन्तने इष्टसङ्गमविभवलाभादिचिन्तने च जायमानौ दौर्बल्योरःक्षतादि-वदनविकासरोमाञ्चोद्गमादिलिङ्गकावुपघातानुग्रहौ न मनसः,
जायमानावित्यस्य उपघातानुग्रहावित्यनेनाऽन्वयः । मृतनष्टादिवस्तुचिन्तने दौर्बल्योर:क्षतादिलिङ्गक उपघातः, इष्टसङ्गमविभवलाभादिचिन्तने वदनविकासरोमाञ्चोद्गमादिलिङ्गकोऽनुग्रहश्च न मनस इत्यर्थः ।
___ अत्र-'मनः-मृतनष्टादिवस्तुचिन्तननिमित्तकोपघातवत्-मृतनष्टादिवस्तुचिन्तनानन्तरं दौर्बल्योरःक्षतादिमत्त्वात्,' 'मन:-इष्टसङ्गमविभवलाभादिचिन्तननिमित्तकानुग्रहवत्-इष्टसङ्गमविभवलाभादिचिन्तनानन्तरं वदनविकासरोमाञ्चोद्गमादिमत्त्वा'दिति प्रयोगौ द्रष्टव्यौ ।
यदीमावुपघातानुग्रहौ न मनसः तर्हि कस्य तौ ? नेमौ निराश्रयौ सम्भवत इति जिज्ञासायामाह
किन्तु मनस्त्वपरिणतानिष्टेष्टपुद्गलनिचयरूपद्रव्यमनोऽवष्टम्भेन हन्निरुद्धवायुभेषजाभ्यामिव जीवस्यैवेति न ताभ्यां मनसः प्राप्यकारित्वसिद्धिः ।
मनस्त्वरूपेण परिणतानि यान्यनिष्टेष्टपुद्गलनिचयरूपाणि द्रव्याणि तद्रूपं यद् मनः तदवष्टम्भेन = तदात्मकनिमित्तेन जीवस्यैवोपघातानुग्रहौ इत्यर्थः । अन्यावष्टम्भेन जीवस्योपघातानुग्रहौ भवत इत्यत्र निदर्शनमाह-हनिरुद्धेति । हृदि निरुद्धः कफादिदोषप्राबल्येनाऽवरुद्धोऽध ऊर्ध्वं च गन्तुमसमर्थः तत्रैव गोलादिरूपपरिणामेनाऽवस्थितो य उदानादिवायुः तेन जीवस्योपघातो वायूपशामकभेषजेनाऽनुग्रहश्च यथा तथेत्यर्थः ।
विषयदेशे मनोगमनस्य प्रतीत्या विषयीक्रियमाणत्वात् प्राप्यकारित्वमेव मनस इत्याशङ्कते
'मृतनष्ट०'-"यः शोकाद्यतिशयात् देहापचयरूप: आर्त्तादिध्यानातिशयाद् हृद्रोगादिस्वरूपश्चोपघातः, यश्च पुत्रजन्माद्यभीष्टप्राप्तिचिन्तासमुद्भूतहर्षादिरनुग्रहः, स जीवस्य भवन्नपि चिन्त्यमानविषयात् मनसः किल परो मन्यते, तस्य जीवात् कथञ्चिदव्यतिरिक्तत्वात् । ततश्चैवं मनसोऽनुग्रहोपघातयुक्तत्वात् तच्छून्यत्वलक्षणो हेतुरसिद्धः ।"-विशेषा० बृ० गा० २१९ । - "तदेतत्सर्वं परस्याऽसम्बद्धभाषितमिवेति दर्शयन्नाह-मनस्त्वपरिणतानिष्टपुद्गलनिचयरूपं द्रव्यमनः अनिष्टचिन्ताप्रवर्त्तनेन जीवस्य देहदौर्बल्याद्यापत्त्या हृन्निरुद्धवायुवदुपघातं जनयति, तदेव च शुभपुद्गलपिण्डरूपं तस्याऽनुकूलचिन्ताजनकत्वेन हर्षाद्यभिनिर्वृत्त्या भेषजवदनुग्रहं विधत्त इति। अतो जीवस्यैतौ अनुग्रहोपघातौ द्रव्यमनः करोति ।"-विशेषा० बृ० गा० २२० ।