________________
सटीक जैनतर्कभाषायां
अन्यथा = चक्षुर्मनसोः प्राप्यकारित्वाभ्युपगमे । तयोः = चक्षुर्मनसोः । जलेति । चक्षुषा जलस्य दर्शने मनसा जलस्य चिन्तने च जलेन संयुक्तयोः चक्षुर्मनसोर्जलरूपज्ञेयकृतक्लेदलक्षणोऽनुग्रहः, चक्षुषाऽनलस्य दर्शने मनसाऽनलस्य चिन्तने चाऽनलेन संयुक्तयोः चक्षुर्मनसोरनललक्षणज्ञेयकृतदाहरूप उपघातश्च प्रसज्येतेत्यर्थः ।
३८
चक्षुषो ज्ञेयकृतानुग्रहोपघातौ क्वचिद् दृश्येते एवेत्युक्तापादानं नाऽनिष्टमिति शङ्कते— रविचन्द्राद्यवलोकने चक्षुषोऽनुग्रहोपघातौ दृष्टावेवेति चेद्,
सूर्यावलोकने यदि चक्षुषः सूर्येण संयोगः तदा सकृद् रविदर्शनेऽपि चक्षुष उपघातः स्याद्, न च तथा भवति, अनवरतसूर्यावलोकने तु सूर्यकिरणा एव चक्षुर्देशं प्राप्ताः तं तापयन्तीति, एवं चन्द्रदर्शने तु उपघाताभावत एवाऽनुग्रहाभिमान इति न चक्षुषो रविचन्द्रदेशं प्रति गमनेनाऽनुग्रहोपघाताविति समाधत्ते—
न, प्रथमावलोकनसमये तददर्शनाद्, अनवरतावलोकने च प्राप्तेन रविकिरणादिनोपघातस्य, नैसर्गिकसौम्यादिगुणे चन्द्रादौ चाऽवलोकने उपघाताभावादनुग्रहाभिमानस्योपपत्तेः ।
प्रथमेति । सूर्यावलोकनेनोपघातस्य चन्द्रावलोकनेनाऽनुग्रहस्य चाऽदर्शनादित्यर्थः । मनसोऽपि विषयविशेषचिन्तने यौ अनुग्रहोपघातौ दृश्येते तौ न मनसः, किन्तु जीवस्यैव तौ, इति न ताभ्यां मनसोऽपि प्राप्यकारित्वसिद्धिरित्याह
'रविचन्द्र०’–‘'अथ परो हेतोरसिद्धतामुद्भावयन्नाह - जल - घृत - नीलवसन - वनस्पतीन्दुमण्डलाद्यवलोकनेन नयनस्य परमाश्वासलक्षणोऽनुग्रहः समीक्ष्यते, सूर - सितभित्त्यादि-दर्शने तु जलविगलादिरूप उपघातः सन्दृश्यते । " - विशेषा० बृ० २०९ ।
‘न, प्रथमावलोकन०’–‘'नैतदेवम् – अभिप्रायापरिज्ञानात्, यतः प्रथमत एव विषयपरिच्छेदमात्रकालेऽनुग्रहोपघातशून्यता हेतुत्वेनोक्ता, पश्चात्तु चिरमवलोकयतः प्रतिपत्तुः प्रान रविकरादिना, चन्द्रमरीचि-नीलादिना वा मूर्त्तिमता निसर्गत एव केनाप्युपघातकेन, अनुग्राहकेन च विषयेणोपघातानुग्रहौ भवेतामपि इति । " - विशेषा० बृ० २११ ।
“नहि वयमेतद् ब्रूमो यदुत चक्षुषः कुतोऽपि वस्तुनः सकाशात् कदाचित् सर्वथैव अनुग्रहोपघातौ न भवतः । ततो रविकरादिना दाहाद्यात्मकेन उपघातवस्तुना परिच्छेदानन्तरं पश्चाच्चिरमवलोकयतः प्रतिपत्तुः चक्षुः प्राप्य-समासाद्य स्पर्शनेन्द्रियमिव दह्येत तथा यत् स्वरूपेणैव सौम्यं शीतलं शीतरश्मि वा जलघृतचन्द्रादिकं वस्तु, तस्मिश्चिरमवलोकिते उपघाताभावादनुग्रहमिव मन्येत चक्षुः, को दोषः ? ॥ ' - विशेषा० बृ० गा० २१० ।