________________
हा
६३
ईहादिनिरूपणम्
अथ ईहां निरूपयति
अवगृहीतविशेषाकाङ्क्षणमीहा । व्यतिरेकधर्मनिराकरणपरोऽन्वयधर्मघटनप्रवृत्तो बोध इति यावत् । यथा - श्रोत्रग्राह्यत्वादिना प्रायोऽनेन शब्देन भवितव्यम्, मधुरत्वादिधर्मयुक्तत्वात् शाङ्खादिना वेति ।
अत्र ईहेति लक्ष्यनिर्देशः, अवगृहीतविशेषाकाङ्क्षणमिति लक्षणनिर्देशः । अत्र अवगृहीतेत्यत्र, नैश्चयिकार्थावग्रहग्रहणे - अवगृहीतं तद्विषयीभूतं रूपाद्यव्यावृत्ताव्यक्तशब्दादिवस्तुमात्रम्, तत्र विशेषस्य = महासामान्यसत्त्वापेक्षया शब्दत्वादिलक्षणावान्तरसामान्यरूपस्याऽऽकाङ्क्षणं विमर्शो मीमांसेति यावत्, तच्च 'किमिदं वस्तु मया गृहीतं शब्दोऽशब्दो वे'त्यादिरूपम्, तच्च नैश्चयिकेहा । व्यावहारिकार्थावग्रहग्रहणे - ' शब्दोऽय 'मित्यवग्रहविषयीभूतं शब्दत्वं शाङ्खत्वाद्यपेक्षया सामान्यम्, तत्र विशेषस्य शब्दत्वापेक्षया शाङ्खत्वादेराकाङ्क्षणं 'कोऽयं शब्दः ? शाङ्खः शार्गो वे 'ति, एतच्च व्यावहारिकेहास्वरूपमवगन्तव्यम् ।
I
अवगृहीतेत्यादिलक्षणपर्यवसितार्थमादाय ईहालक्षणमावेदयति-व्यतिरेकेति । विमर्शेऽन्वधर्मो विधिरूपो व्यतिरेकधर्मश्च तदभावरूपः तदभावव्याप्यरूपश्चाऽवभासते । तत्र यादृशबोधो व्यतिरेकधर्मनिराकरणपरोऽन्वयधर्मसङ्घटनपरश्च स बोध ईहेत्यर्थः । उदाहरति— यथेति । श्रोत्रग्राह्यत्वादिरसाधारणो धर्मः शब्दस्यैव, रूपादौ तु स नाऽस्तीति शब्दत्वाभावस्य तद्व्याप्यस्य रूपत्वादेश्च व्यतिरेकधर्मस्य निराकरणमन्वयधर्मस्य शब्दत्वस्य सङ्घटनं च 'श्रोत्रग्राह्यत्वादिना प्रायोऽनेन शब्देन भवितव्यमिति बोधेन क्रियते इति स बोध ईहा । इयं चेहा सामान्यमात्रग्राहिणो नैश्चयिकावग्रहस्याऽनन्तरं भवति ।
'अवगृहीत'–''नैश्चयिकार्थावग्रहे यत् सामान्यग्रहणं रूपाद्यव्यावृत्त्याऽव्यक्तवस्तुमात्रग्रहणम्, तथा व्यवहारार्थावग्रहेऽपि यदुत्तरविशेषापेक्षया शब्दादिसामान्यग्रहणम्, तस्मादनन्तर– महा प्रवर्तते । कथम्भूतेयम् ? । तत्र विद्यमानस्य गृहीतार्थस्य विशेषविमर्शद्वारेण मीमांसा । केनोल्लेखेन ? 'किमिदं वस्तु मया गृहीतम् - शब्दः, अशब्दो वा रूपरसादिरूपः ?' इदं च निश्चयार्थावग्रहानन्तरभाविन्या ईहायाः स्वरूपम् । अथ व्यवहारार्थावग्रहानन्तरसम्भविन्याः स्वरूपमाह-'शाङ्ख-शायोर्मध्ये कोऽयं भवेत् शब्दः शाङ्खः शाङ्ग वा' ? इति ।
ननु 'किं शब्दः अशब्दो वा' इत्यादिकं संशयज्ञानमेव कथमीहा भवितुमर्हति ?, सत्यम्, किन्तु दिङ्मात्रमेवेदमिह दर्शितम्, परमार्थतस्तु व्यतिरेकधर्मनिराकरणपरः अन्वयधर्मघटनप्रवृत्तश्चाऽपायाभिमुख एव बोधः - ईहा द्रष्टव्या । " - विशेषा० बृ० गा० २८९ ।