________________
अनुबन्धचतुष्टयम्
अभिधेयः प्रयोजनमधिकारी सम्बन्धश्चेत्येतदनुबन्धचतुष्टयम् । तल्लक्षणं तु प्रवृत्तिप्रयोजकज्ञानविषयत्वं प्रवृत्तिजनकज्ञानजनकज्ञानविषयत्वं वा । प्रथमे जनकजनकं प्रयोजकं भवतीतिकृत्वा प्रवृत्तिप्रयोजकमभिधेयादिचतुष्टयज्ञानम्, तद्विषयत्वमभिधेयादिचतुष्टये । द्वितीये प्रवृत्तिजनकं मदिष्टसाधनताज्ञानं मत्कृतिसाध्यताज्ञानं च, तज्जनकमनुबन्धचतुष्टयज्ञानम्, तद्विषयत्वमनुबन्धचतुष्टये समस्तीति लक्षणसमन्वयः ।
तथा चैतद्ग्रन्थाध्ययनप्रवृत्त्यर्थमभिधेयादिस्वरूपानुबन्धचतुष्टयप्रतिपादनायोक्तंप्रमाणनयनिक्षेपैरिति । उपलक्षणे' चेयं तृतीया, प्रमाणनयनिक्षेपोलक्षितत्वं च प्रकृततर्कभाषाभिधग्रन्थस्य प्रतिपादकतयेति । न तु करणाभिधायिनीयं तृतीया, तथा सति तस्याः तनोमीत्यनेनैवाऽन्वयस्य वक्तव्यत्वेन तर्कभाषाभिधेयस्याऽन्यस्यैव कस्यचिद् विशदीकरणमेभिरिति स्यात्, न च तथाऽत्र समस्तीति । एवं च प्रमाणनयनिक्षेपा अभिधेयाः, तैः सह ग्रन्थस्य प्रतिपाद्यप्रतिपादकभावः सम्बन्ध इति साक्षात् प्रतीयते । प्रमाणनयनिक्षेपज्ञानं प्रयोजनम्, तत्कामोऽधिकारीति प्रयोजनाधिकारिणावर्थात् प्रतीयेते ।
प्रमाणनयनिक्षेपाणां च ज्ञानरूपमेवाऽनुष्ठानम्, तच्च शक्यमेवेति नाऽशक्यानुष्ठेयत्वमभिधेयस्य; तत्प्रतिपादकत्वमप्युक्तशास्त्रस्य सम्भवत्येवेति नाऽसम्बद्धत्वम्; निरुक्ताभिधेयपरिज्ञानं चोपादेयार्थविषयकत्वेन काम्यत्वाद् भवत्येव प्रयोजनम्; तत्कामनाऽपि प्रेक्षावतां सम्भवत्येवेति नाऽधिकारिणामप्यसम्भव इति - न चन्द्रानयनोपदेशवद् नागशिरोमण्याहरणोपदेशवच्चाऽशक्यानुष्ठेयार्थत्वम्, न वोन्मत्तवाक्यसन्दर्भवत् पूर्वपरासङ्गतार्थत्वम्, न रसाभासादिवर्णनवदुत्तमपुरुषानभिमतार्थज्ञानजनकत्वम्, नाऽत एव चाऽसम्भवद्विशिष्टपुरुषाधिकारत्वमिति निष्कम्पप्रवृत्तिविषयाध्ययनकोऽयं ग्रन्थ इति ।
प्रमाणसामान्यनिरूपणम्
अथ प्रथमोद्दिष्टं प्रेमाणं निरूपयति । श्रीदेवसूर्युपदिष्टं प्रमाणलक्षणमाह
तत्र- स्वपरव्यवसायिज्ञानं प्रमाणम् ॥
५
तत्र प्रमाणादीनां मध्ये
=
स्वपरेति । अत्र प्रमाणमिति लक्ष्यनिर्देशः, स्वपरव्यवसायिज्ञानमिति लक्षणनिर्देशः । • यद्यपि स्वपरव्यवसायित्वस्वरूपप्रकर्षविशिष्टं ज्ञानं प्रशब्दाव्यवहितोत्तरेण भावानडन्तेन ३
१. हेतुकर्तृकरणेत्थम्भूतलक्षणे ॥ ( सिद्ध०२-२-४४)
२. यथोद्देशं निर्देश इति न्यायाद् ।
३. अनट् ॥ (सिद्ध० ५-३ - १२४)