________________
सटीकजैनतर्कभाषायां करणानडन्तेन' वा 'मा'धातुना प्रत्याय्यते इति, प्रमाणमिति लक्ष्यवचनं स्वपव्यवसायिज्ञानमिति लक्षणवचनं च समानार्थमिति उद्देश्यतावच्छेदक-विधेयतावच्छेदकयोरैक्ये 'घटो घट' इत्यस्मादिव प्रकृतलक्षणवाक्यादपि शाब्दबोधानुपपत्ति:२; तथापि प्रत्यक्षं प्रमाणमनुमानं प्रमाणं प्रत्यभिज्ञानं प्रमाणं स्मृतिः प्रमाणमित्याद्यनुगतप्रतीतिसिद्धमनुगतमस्त्येव किञ्चित् प्रमाणत्वं स्वपरव्यवसायिज्ञानत्वसमनियतं तदन्यत्, तदेव च लक्ष्यतावच्छेदकम्, तद्विशिष्टमेव च प्रमाणमिह प्रमाणपदेन विवक्षितम् ।
स्वपरव्यवसायिज्ञानत्वाभिन्नत्वेऽपि वा प्रमाणत्वस्य प्रमाणत्वत्वेन लक्ष्यतावच्छेदकत्वं स्वपरव्यवसायिज्ञानत्वत्वेन च लक्षणतावच्छेदकत्वमित्यपि स्याद्वादिना वक्तुं शक्यत एव-तन्मते एकस्याऽपि निरुक्तज्ञानत्वस्योक्तरूपाभ्यां भेदसम्भवात् । तथा स्वपरव्यवसायिज्ञानत्वमपि स्वव्यवसायिज्ञानत्व-परव्यवसायिज्ञानत्वाभ्यामभेदेनाऽऽकलितं द्विस्वभावमिति, तत्र स्वव्यवसायिज्ञानत्वस्वभावात्मना प्रमात्मकफलतावच्छेदकम्, परव्यवसायिज्ञानत्वस्वभावात्मना च प्रमाणात्मककरणशक्त्यवच्छेदकमित्यपि बोध्यम् ।
लक्षणांशं विवृणोतिस्वम् आत्मा, ज्ञानस्यैव स्वरूपमित्यर्थः ।
कस्याऽऽत्मेत्यनुक्तौ 'घटात्मा-पटात्मे'त्येवं घटादिस्वरूपे सर्वत्र 'आत्म'शब्दप्रयोगाद् घटाद्यात्मनोऽपि स्वशब्देन ग्रहणं प्रसज्येत । किञ्च जैनमते घटादिव्यवसायो 'घटमहं जानामी'त्यादिस्वरूप एव, तत्र च 'अहं' पदवाच्यस्य प्रमातुरात्मनोऽपि भानं भवतीति प्रमाता स्वशब्दग्राह्य इति भ्रान्तिरपि प्रसज्येतेत्यतः तत्पर्यवसितार्थमाह-ज्ञानस्येति । साक्षात् परम्परया वा यः स्वार्थस्य विशेष्यः, यश्च समभिव्याहतक्रियाकारकपदार्थः तदुभयत्र 'स्व'पदस्य शक्तिरिति स्वपरव्यवसायिज्ञानमित्यत्र 'स्व'शब्दार्थस्य परम्परया विशेष्यं ज्ञानमेवेति ज्ञानस्यैव
१. करणाऽऽधारे ॥ (सिद्ध० ५-३-१२९) २. लक्षणवाक्ये लक्ष्यमुद्दिश्य लक्षणं विधीयते इति लक्ष्यमुद्देश्यम्, लक्षणं विधेयम् । टीकायां दर्शितं च
प्रमाणत्वम् = उद्देश्यतावच्छेदकम् = स्वपरव्यवसायिज्ञानत्वमिति । तदेव विधेयतावच्छेदकमपीति उभयोरैक्यात् शाब्दबोधानुपपत्तिरित्याशङ्का । न चेयं युक्ता-'इदं प्रमाणम्', 'इदं प्रमाण मित्यनुगतप्रतीतिसिद्ध'प्रमाणत्व'धर्मस्यैवाऽत्रोद्देश्यतावच्छेदकत्वेनाऽभिमतत्वात्, तस्य च स्वपरव्यवसायिज्ञानत्वरूपविधेयता
वच्छेदकभिन्नत्वात् । ३. स्वपरव्यवसायिज्ञानत्वान्यत् । ४. अत्र स्वपदार्थविशिष्टो व्यवसायः, तद्विशिष्टं च ज्ञानमिति स्वार्थस्य परम्परया विशेष्ये ज्ञाने स्वपदस्य शक्तिः ।
'चैत्रः स्वं पश्यती'त्यादौ यः समभिव्याहृतायाः क्रियायाः कारक: चैत्रादिः, तत्र स्वपदस्य शक्तिः ।