________________
सटीकजैनतर्कभाषायां प्रकृतास्मच्छब्दोच्चारयितुः श्रीयशोविजयोपाध्यायस्याऽस्मच्छब्देनाऽवगतिः । अहंपदानुपादानेऽपि तनोमीत्युत्तमपुरुषेण तदर्थावगतिः स्यादेव, तथापि स्वगत-विदित-चारुचिन्तामणित्वादिधर्मलक्षणासाधारणपाण्डित्याभिव्यञ्जनद्वारा स्वकर्तृकोक्तग्रन्थस्योपादेयत्वाभिवक्तये तदुक्तिः ।
प्रमाणनयनिक्षेपैरिति । समासेऽल्पस्वरस्य पूर्वमुपादानमिति नियमेऽपि बहुस्वरस्य प्रमाणपदस्य यत् पूर्वमुपादानं तद् नयापेक्षया प्रमाणस्याऽभ्यर्हितत्वादिति बोध्यम् । प्रमाणादीनां स्वरूपं ग्रन्थे एव व्यक्तम् ।
तर्कभाषामिति । तय॑न्ते = प्रमितिविषयीक्रियन्ते इति तर्काः प्रमाणादयः, तेषां भाषा = प्रतिपादकवचनसमष्टिः = पूर्वापरसङ्गतिविशेषभावापन्न-वाक्यकदम्बकसनिवेशलक्षणसन्दर्भात्मा ग्रन्थ इति यावत्: तां तनोमि = विस्तारयामि ।
तावन्मात्राभिधाने च तर्कपदव्युत्पत्तिनिमित्तस्य प्रमितिविषयत्वस्य जीवाजीवपुण्यपापबन्धास्रवसंवरनिर्जरामोक्षाख्यनवतत्त्वेषु, पुण्यपापयोर्जीवाजीवयोरन्तर्भावमाश्रित्य सप्ततत्त्वेषु, जीवपुद्गलधर्माधर्माकाशकालात्मकषद्रव्येषु तथा क्रमाक्रमभाविपर्यायेषु च सत्त्वेन; तत्प्रतिपादकसन्दर्भविशेषस्याऽपि तर्कभाषात्वेनोत्तरकालीनकर्त्तव्यत्वप्रकारक-ज्ञानानुकूलव्यापारलक्षणप्रतिज्ञाविषयतेया, ग्रन्थे चाऽस्मिन् जीवादिपदार्थानामनिरूपणेन सम्पूर्णतया प्रतिज्ञातानिर्वाहाद् न्यूनत्वं स्यात् । व्युत्पत्त्यर्थमनाश्रित्य चिकीर्षितग्रन्थविशेषे रूढ एवाऽयं तर्कभाषाशब्द इति यावान् विषयोऽत्र प्रतिपादितोऽस्ति तावदभिधेयकग्रन्थ एव प्रतिज्ञाविषय इति न प्रतिज्ञातार्थानिर्वाह' इति विभाव्यते, तदाऽपि चिकीर्षितग्रन्थादौ तदध्ययनादिप्रवृत्त्यर्थमनुबन्धचतुष्टयमवश्यमेव वक्तव्यम् । अन्यथाऽनुबन्धचतुष्टयाज्ञाने प्रवृत्तिकारणयोरिदं मदिष्टसाधनमिति, इदं च मत्कृतिसाध्यमिति ज्ञानयोरभावात् तदध्ययनार्थं प्रेक्षावतां प्रवृत्तिरेव न स्यात् । १. लघ्वक्षरासखीदुत्स्वराद्यदल्पस्वराय॑मेकम् ॥ (सिद्ध० ३-१-१६०) २. अहमेतत् कार्यं करिष्यामीति मनसिकृत्य प्रतिज्ञा गृह्यते । अतः सा उत्तरकालीन(= भविष्यत्कालीन)
कर्तव्यत्वप्रकारक(किञ्चित्कार्यविशेष्यक)ज्ञानानुकूल(= ज्ञानप्रयोज्य)व्यापारात्मिका । ३. जैनदर्शने लोकोऽयं नवतत्त्वात्मकः षड्द्रव्यात्मको वा मतः । अतो नवतत्त्वानि षड्द्रव्याणि गुणाः पर्यायाश्च
इदं सर्वं प्रमितिविषयीभूतमिति तत् सर्वं तर्कपदवाच्यम् । न चाऽत्र तत्सर्वस्य निरूपणमिति तर्कनिरूपण
प्रतिज्ञाभङ्गः स्यादिति भावः । ४. अथवाऽत्र तर्कशब्दो यथार्थज्ञानसाधनार्थे ज्ञेयः । प्रमाणनयनिक्षेपा यथार्थज्ञानसाधनानीति तेषामेव निरूपणे न
प्रतिज्ञाभङ्गः। ५. चिकीर्षां प्रतीष्टसाधनत्वकृतिसाध्यत्वयोर्ज्ञानस्य हेतुत्वम् । (कारिकावली १५०)