________________
मङ्गलम् नरामराधीश्वरादिपूजार्हस्य पूजातिशयो व्यक्तीभवति ।
___यद्यपि इन्द्रवृन्दनतमित्युक्त्याऽपि निरुक्तार्थलाभः, तथापि 'यस्य सारस्वतमन्त्रस्य प्रसादात् कवित्ववित्त्वादिप्राप्तिः, तस्य मन्त्रस्य सङ्ग्रथनमप्यादौ परमं मङ्गलम्, यतः सरस्वत्याः स्मरणमपि हितमाह्वयती'ति मन्यमानः श्रीमान् यशोविजयोपाध्यायः स्वोपज्ञेषु सर्वेष्वपि ग्रन्थरत्नेषु ऐङ्कारमादावुपनिबध्नात्येवेत्येतदनुरोधेनाऽत्राऽपि ऐन्द्रवृन्दनतमित्युक्तिः ।
जिनमिति विशेष्यवचनेन च 'रागद्वेषादीन् शत्रून् जितवानिति जिन' इति व्युत्पत्तिमहिम्नाऽवयवशक्तिलक्षणयाऽऽगतातोऽवयवार्थप्रतिपत्तितोऽपायापगमातिशय आवेदितो भवति। जिनशब्दस्तु ऋषभादिचतुर्विंशतिजिनेषु रूंढ्यैव जिनत्वलक्षणमेकमनुगतप्रवृत्तिनिमित्तमुपादाय प्रवर्तत इति समुदायशक्तिलक्षणरूढिविषये जिनत्वलक्षणानुगतधर्मविशिष्टे नतिक्रियाकर्मणि योगार्थस्य रागद्वेषादिशत्रुजेतृत्वस्याऽपायापगमातिशयपर्यवसनस्य विशेषणत्वमुपपन्नमेव ।
नत्वा = नमस्कृत्य । नमस्कारश्च स्वावधिकोत्कृष्टत्वप्रकारकज्ञानानुकूलव्यापारः; जिनमिति द्वितीयार्थश्च कर्मत्वम्, तच्च प्रकृते विशेष्यत्वम्, तस्य नमस्कारघटकज्ञाने निरूपकत्वसम्बन्धेनाऽन्वयः, नमस्कारघटकस्वपदेन च नमस्कर्तुर्ग्रहणम् । तथा च ज्ञानातिशयवचनातिशयपूजातिशयाऽपायापगमातिशयचतुष्टयोपपन्नं जिनं प्रणम्य जिनवृत्तिविशेष्यताकं यद् ग्रन्थकर्जवधिकोत्कृष्टत्वप्रकारकं ज्ञानं 'मत्त उत्कृष्टो जिन' इत्याकारकम्, तदनुकूलव्यापारानन्तरमित्यर्थः ।
अहं = प्राप्त-न्यायविशारद-न्यायाचार्यादिबिरुदः श्रीमान् यशोविजयः । 'अस्मद्'शब्दस्य अन्यदीयस्वार्थतात्पर्यकोच्चारणानधीनोच्चारणरूपस्वतन्त्रोच्चारणकर्तरि शक्तिरिति १. एतद्ग्रन्थकर्ता श्रीमान् यशोविजयोपाध्यायः ''कारलक्षणसारस्वतबीजमन्त्रजापेन सरस्वती प्रत्यक्षीकृत्य वरं
लब्धवान् । २. शास्त्रकल्पितावयवार्थभानाभावे समुदायार्थनिरूपिता शक्ती रूढिः । ३. शास्त्रकल्पितावयवार्थनिरूपिता शक्तिर्योगः । (न्यायसिद्धान्तमुक्तावली का०-७१) ४. अस्मिन् पद्ये 'जिन'शब्दो द्विाख्येयः । तत्र रूढ्यर्थो विशेष्यः, योगार्थस्तु विशेषणम् । ५. अनुकूलत्वं चाऽत्र प्रयोज्यत्वम्, न तु प्रयोजकत्वम्-अन्यथा स्वकृतनमस्कारं प्रति स्वस्थित-किञ्चिद्वि
शेष्यकस्वावधिकोत्कृष्टत्वप्रकारकज्ञानस्य कारणत्वानुपपत्तेः । ६. अयमत्राऽभिसन्धिः- 'अहं वच्मी'त्यादौ अस्मच्छब्दस्योच्चारणकर्तरि शक्तिर्भवति । "चैत्रेण कथितम्-अहं
चतुरोऽस्मी"त्यादौ अस्मच्छब्दस्य नैतद्वाक्यवक्तरि देवदत्तादौ शक्तिः-देवदत्तादि-कर्तृकोच्चारणेऽन्यदीयस्वार्थतात्पर्यकोच्चारणानधीनत्वरूपस्वातन्त्र्याभावादिति स्वतन्त्रोच्चारणकर्तरि चैत्रे एवाऽस्मच्छब्दस्य शक्तिः ।
5M