________________
२९०
एवं द्वावर्पितानर्पितनयवचनौ पर्यवद्रव्यबोधौ, एवं द्वौ निश्चयानिश्चयनयवचनौ लोकसिद्धार्थकोऽन्त्यः ||३८|| आद्यस्तत्त्वार्थबोधः सकलनयमतस्वार्थकोऽन्त्यो नयैकार्थग्राही चैवमेवापरनयभजनाज्ञानतोऽर्थक्रियातः । ज्ञानन्त्वेकं प्रधानं कलयति प्रथमश्चान्त्य आह क्रियां तु, सम्यक्त्वं ज्ञानमेवं चरणमिति समं मोक्षमार्गस्तु जैनः ||३९|| पूर्वः पूर्वो नयस्स्यान्ननु बहुविषयश्चोत्तरोऽल्पार्थ एषु,
सप्तस्यैव विवेको गदितनयभिदाऽऽभासतायाञ्च बोध्या । एकान्तावेशतस्ते परमिह गदिता दुर्नया गौतमीया
दीनां दृष्टान्तगत्या कतिपय इह ते दर्शिता भाविताश्च ॥४०॥ एवं पूर्णो द्वितीयो भवति नयपरिच्छेद नामाऽत्र पूज्यै
द्रव्यार्थश्चर्जुसूत्रोऽनुमत इह ततः पर्यवार्थस्त्रिधैव । नो भिन्नो नैगमोऽन्तर्भवति स तु परं संग्रहे सिद्धसेनोऽशुद्धद्रव्येऽथवाऽयं व्यवहृतिनिपुणे वक्ति चैवं विवेकः ॥४१॥ निक्षेपाश्चार्थशब्दान्यतरविरचनास्ते चतुर्धा निरुक्ताः,
तत्राऽऽद्यो नामनामा क्वचिदपि च निजार्थानपेक्षोऽभिषिक्तः । नामेन्द्रो गोपपुत्रोऽपरमपि च तथा डित्थनामाभिलाप्यं,
यावद्द्रव्यं तथाऽन्यद् द्विविधमिदमथापेक्षयार्थस्य भाव्यम् ॥४२॥ चित्रादौ स्थाप्यते यत्त्वभिमतगतये शून्यमर्थेन तुल्या
कारं वाऽऽकारहीनं तदिह ननु मतं स्थापनाख्यं द्वितीयम् । द्वेधाऽप्येतच्च यावत्कथिकमथ भवेदित्वरं स्थापनेन्द्रः,
शक्राकारेण तुल्योपरचितप्रतिमा स्थापिताश्चान्यथाऽपि ||४३|| हेतुर्निक्षिप्यते यः स तु जिनसमये द्रव्यनामा तृतीयः,
कार्यो भावोऽत्र भूतो भवतु भवतु वाऽनागतो नाऽग्रहोऽत्र । द्रव्येन्द्रो भूतशक्रोऽभिमत इह तथा भाविशक्रोऽपि साधु
प्राधान्येऽपि सस्यादथ तदनुपयोगेऽपि संयोजितोऽसौ ॥ ४४ ॥ भावो भावेऽभिषिक्तोऽनुपचरिततया स्वस्वरूपे चतुर्थो,
भावेन्द्रश्शक्रभावी भवति सुरपतिर्मुख्य एवार्थकारी । नामादीनां त्रयाणामपि प्रतिनियतास्सन्ति केचिद्विशेषा, भावाभावाविशेषे भवति ननु ततो भिन्नताऽन्योन्यमेषाम् ॥४५॥ भावत्वातिक्रमो नो यत इह निखिले वस्तुपर्यायभावो, नामादाविन्द्रशब्दे कथित इह भवेत् केवले सर्वबोधः ।
परिशिष्ट - २