________________
२९१
विषयानुक्रमणिका
किन्तु प्रत्येकबोधः प्रकरणप्रभृतेर्जायते तेन सर्वे,
भावाङ्गत्वाच्च नान्या भवति परमसौ भावप्राधान्यमेषु ॥४६॥ एतच्चोक्तं विभिन्नार्थगतमननयाऽभिन्नवस्तुस्वरूपेऽ
प्यस्त्वेवैषां प्रवृत्तिः सकलमपि निजैर्वस्तुनामादिभिर्यत् । भावव्याप्तैर्विशिष्टं समधिगतमयं स्याच्च सिद्धान्तवादः,
सर्वेषामेव तेषां प्रतिविषयमतस्स्वस्वनीतिप्रकाशः ॥४७॥ योज्या एते नयैस्स्युनियमितगतये सिद्धसेनस्य पक्षे,
नामाद्याश्चन्द्रयस्स्युस्त्वनुमतिविषया द्रव्यनीतेर्न भावः । भाव: पर्यायनीतेरनुमतिपदवीं याति नामादिको नो,
द्वौ भेदौ द्रव्यनीतेः ऋजुप्रभृतिनयाः पर्यवार्थस्य मान्याः ॥४८॥ इत्थं पूज्यैर्निरुक्तं निजमतविषयास्सर्व एवाद्यमान्या,
निक्षेपो पर्ययस्यानुमतिविषयता याति भावो न चान्यः । द्रव्ये चैवर्जुसूत्रो विशति ननु यतस्सोऽप्यशुद्धस्तु शुद्धाः,
शब्दाद्याश्च त्रयोऽन्ये भवनपरिगतास्तन्मते पर्यवार्थाः ॥४९॥ युक्त्या चैवर्जुसूत्रे सकलविषयतां स्थापयित्वा परस्य,
मान्यं यन्नामभावौ कलयति न परं खण्डितं सूत्रतोऽपि । त्रीनेव स्थापनान्यान्व्यवहृतिनिपुणस्सङ्ग्रहश्चैच्छतस्त
न्मन्तव्यं युक्तिजालैरपहृतमुदिता नैगमस्यापि भेदाः ॥५०॥ निक्षेप्यास्सर्व एतैर्न हि भवति परं द्रव्यनिक्षेप एको,
जीवे तत्रापि मार्गो बहुविध उदितः खण्डितः स्थापितश्च । इत्थं पूर्णस्तृतीयो भवति ननु परिच्छेद एषो यथार्थः, पूर्णो ग्रन्थोऽपि चैवं विषयपरिचयस्तत्र कार्यः सुधीभिः ॥५१॥