________________
विषयानुक्रमणिका
ते स्यात्काराङ्कितास्स्युस्त्वर्णति नियता: (?) सप्तभङ्गीः, ह्यन्योन्यापेक्षभावान्ननु दधति महावाक्यतां स्यात एव निष्ठाम् (?) ||३०|| सत्त्वादिभाववर्गो भवति ननु विधिस्तन्निषेधस्वभावो, द्वौ धर्मों व्यस्तभावे तदुभयघटनामात्रतः पञ्च चान्ये । एवं स्युस्सप्तधर्माविषयकृतभिदास्संशयास्तेन सप्त,
जिज्ञासास्सप्त तेभ्योऽभ्युदयमधिगतास्सप्तप्रश्नाश्च ताभ्यः ॥३१॥ स्यादस्त्येवेह सर्वं भवति स प्रथमो भङ्ग एवं द्वितीयः,
स्यान्नास्त्येवेह सर्वं क्रमिकतदुभयावैदकौ योजितौ तौ । ज्ञेयो भङ्गस्तृतीयोऽथ युगपदुभयावेदकस्स्यात्तुरीयो
ऽवक्तव्यं स्यात्ततोऽन्ये त्रय इह मीलनात्सम्भवन्तीह भङ्गीः ||३२|| धर्माणां भिन्नतायां भवति हि विकलादेशता भङ्गमात्रे, तेषाञ्चाऽभिन्नतायां भवति तु सकलादेशता भङ्गमात्रे । अष्टौ कालादयस्तां विदधति नयतो गौणप्राधान्यभावादेवं स्यात्सप्तभङ्गी जिनसमयगता द्विस्वभावा प्रमाणम् ॥३३॥ एतद्वार्त्ताऽवसाने प्रथम इह परिच्छेद उक्तः प्रमाणे,
पूर्णार्था मानवाक्यं तत इह सकलादेशतस्सप्तभङ्गी । सैव स्यान्नीतिवाक्यं ननु यदि विकलादेशतामेति तस्मा
दन्यतीर्थान्तरीयं वचनमुभयतो भ्रष्टमेकान्ततायाम् ॥३४॥ वस्त्वंशस्यैव बोधो नय इह गदितो नाऽप्रमाणं न मानं,
नेवासम्भाव्यमम्भोनिधिमितसकलं नासमुद्रोऽम्बुधिर्नो । द्रव्यार्थः पर्यवार्थस्त्विति भवति भिदा तस्य तत्राऽऽद्य इष्टः, प्राधान्याद् द्रव्यभावाकलनमतिरसौ पर्यवेष्वेत्युपेक्षाम् ॥३५॥ अन्त्यः पर्यायमात्रं कलयति सकलं द्रव्यसाम्मुख्यशून्यो,
द्रव्यं सामान्यमन्यद्भवति ननु विशेषाभिधानं विवर्त्तम् । द्रव्यार्थस्तत्र मान्यस्त्रिविध इह नयो नैगमस्संग्रहश्च,
ताभ्यामन्यस्तृतीयो व्यवहृतिनिपुणः पर्यवस्स्याच्चतुर्धा ||३६|| आद्यस्तत्रर्जुसूत्रः क्षणिकमिह जगत् शब्दनामा द्वितीयः,
कालदेरर्थभेदस्त्विह तु समभिरूढाभिधानस्तृतीयः । भेदः पर्यायभेदादिह भवति ततः शब्दभेदेऽर्थभेदः, स्यादेवम्भूतनामा चरम इह मते नाऽक्रियार्थस्तु शब्दः ||३७|| एवं स्युस्सप्त एते उभयगणनया तेषु चाऽऽद्या नयास्स्युश्चत्वारोऽर्थप्रधानास्त्रय इह तु परे शब्दनाम्नाऽभिधेयाः ।
२८९