________________
२८८
परिशिष्ट-२
त्रैलक्षण्यादि नैवं परमतप्रथितं लक्षणं साधनस्य,
किन्त्वेकं साध्यभावे भवनमपरथाऽभाव इत्येव जैनम् ॥२२॥ पूर्वं यन्न प्रतीतं न च परमितितो बाधितं वाद्यभीष्टं,
साध्यं ज्ञेयं तथा तन्नियममतिकलापेक्षया धर्मरूपम् । तद्वान्धर्मी च साध्यं त्वनुमितिसमयापेक्षया धर्मिसिद्धिः,
स्यान्मानाद्वा विकल्पादथ तदुभयतो दर्शिता चाऽत्र युक्तिः ॥२३॥ हेतोः पक्षस्य यत्स्याद्वचनमिह भवेत्तत्परार्थानुमानं,
नोदाहृत्यादिवाचां परमतगदितो युज्यतेऽत्र प्रयोगः । वादीन्मन्दादिबुद्धीन् परमिह तु समाश्रित्य न्यायप्रयोगे,.
. पक्षादेः शुद्धिवाक्यान्यपि जिनसमये सम्मतान्येवं तत्र ॥२४॥ सोऽयं हेतुर्द्विभेदः प्रथम इह विधिस्स्यादभावो द्वितीयः,..
तत्राद्यस्स्याद् द्विभेदो विधिमितिनिपुणोऽन्यो निषेधे समर्थः । षोढाऽऽद्यो व्याप्यकार्यप्रतितिजनकपूर्वोत्तरात्मक्षणैक
सम्यक्चारिस्वरूपैरपर इह विरुद्धोपलब्ध्याख्य इष्टः ॥२५॥" सोऽयं सप्तप्रकारो भवति स च निषिध्यस्वभावो द्विधा स्यात्,
भिन्नार्थव्याप्यकार्यविकलजनकपूर्वोत्तरात्मप्रकारैः। अन्त्योऽपि स्याद् द्विभेदो विधिरिव गदितो पञ्चधाऽऽद्यो विरुद्ध
स्यैव स्यात्कार्यहेत्वात्मरतसहचरव्यापकाभावभेदे ॥२६॥ अन्त्यस्सप्तप्रकारो भवति स च निषेध्याविरुद्धस्वभावा__भावाद्यैरेव भेदैस्तदनुगमचय(?)दर्शितोदाहृता च। हेत्वाभासस्ततोऽन्यस्त्रिविध इहमतोऽसिद्ध एवं विरुद्धोऽ
नैकान्तश्चेति भेदादपरमतभिदा खण्डिता युक्तिभिस्तु ॥२७॥ आविर्भूतं यदाप्तोक्तवचनत इदं त्वागमाख्यं प्रमाणं,
व्याप्तिज्ञानं विनापि प्रभवति हि ततो नाऽनुमाने निविष्टम् । सत्यार्थज्ञानपूर्वं ह्युपदिशति हितं यः स आप्तस्तदीयं,
वाक्यं वर्णादिरूपं वचनमनुमतं पुद्गलेनैव जातम् ॥२८॥ वर्णोऽकारादिरिष्टो भवति ननु पदं यच्च सङ्केतवत्तत्, ' __ अन्योन्यापेक्षितानां समुदितमुदितं वाक्यमेतत्पदानाम् । तत्सर्वत्र स्ववाच्येऽनुसरति नियमात्सप्तभङ्गी तथैव, .
स्यात्पूर्णार्थावबोधो भवति ननु तदा मानभास्योऽन्यथा नो ॥२९॥ एकत्रार्थे तु प्रश्नानुगमनवशतस्सप्तधर्मप्रवृत्त्या,
भङ्गाः प्रत्येकधर्म विधितदपहतिभ्यां भवन्तीह सप्त ।