________________
नयविशेषनिरूपणम्
२०७ पञ्चतयी-पञ्चप्रकारा जात्यादिप्रवृत्तिनिमित्तमाश्रित्य शब्दानां प्रवृत्तिः व्यवहारमात्रमाश्रित्य, यथा-पन्था गच्छति, कुण्डिका स्रवति, अयो दहतीत्युपचारत 'एव, न तु वस्तुस्थितिमनुरुध्य, तथेयमपीति । यदि यथावस्थितवस्तुस्वरूपग्राहिनिश्चयनयादियं स्यात्, तदाऽभ्युपगमपथं गच्छेदपि, न चैवमित्याह-न तु निश्चयादितीति । अयं नयः एवम्भूतनयः ।
अर्थनय-शब्दनयभेदेन नयविभागमुपदिशति
एतेष्वाद्याः चत्वारः प्राधान्येनाऽर्थगोचरत्वादर्थनयाः, अन्त्यास्तु त्रयः प्राधान्येन शब्दगोचरत्वात् शब्दनयाः ।
आद्याः चत्वार:=नैगमसङ्ग्रहव्यवहारर्जुसूत्राः । प्राधान्येनेति । प्राधान्येन सामान्येन सामान्यं विशेषं वाऽर्थमाश्रित्यैव वस्तुस्वरूपं परिच्छिन्दन्तो नयविशेषस्वरूपतां प्रतिपद्यन्ते । सामान्यमात्रविषयकत्वात् सङ्ग्रहः, विभिन्नसामान्यविशेषोभयविषयकत्वाद् नैगमः, उत्तरोत्तरविशेषविषयकत्वाद् व्यवहारः, क्षणिकविशेषरूपार्थविषयकत्वाद् ऋजुसूत्र इति सामान्यविशेषोभयात्मकस्याऽर्थस्यैव सामान्यांशं विशेषांशं वा प्राधान्येन गोचरयन्त्येते नया इत्यर्थनया उच्यन्ते इत्यर्थः ।
अन्त्यास्तु त्रयः-शब्दसमभिरूदैवम्भूताख्याः त्रयो नयाः । प्राधान्येनेति । एते नयाः शब्दस्य वैलक्षण्येनाऽर्थवैलक्षण्यमुशन्ति अर्थान् शब्दवशे स्थापयन्ति, यतः कालकारकलिङ्गादिभेदः शब्दगत एव, व्युत्पत्तिभेदोऽपि शब्दस्यैव, ततोऽर्थभेदमुररीकुर्वन्तः शब्दाद्याः त्रयो नयाः प्रधानभावेन शब्दविषयकत्वात् शब्दनया इत्यर्थः ।
अर्पितनयानर्पितनयाभ्यां नयस्य द्वैविध्यमुपदर्शयतितथा विशेषग्राहिणोऽर्पितनयाः, सामान्यग्राहिणः चाऽनर्पितनयाः ।
विशेषग्राहिण इति । अयंते-विशेष्यते इत्यर्पितो विशेषः, तद्ग्राहिणः । सामान्यविशेषात्मकवस्तुनि उक्तेषु नयेषु ये विशेषग्राहिण तेऽर्पितनयाः कथ्यन्ते इत्यर्थः । सामान्य
'तथा विशेषग्राहिण:'-"अर्प्यते विशेष्यते इत्यर्पितो विशेषः तद्वादी नयः अर्पितनयः समयप्रसिद्धो ज्ञेयः । तन्मतं विशेष एवास्ति न सामान्यम् । अनर्पितमविशेषितं सामान्यमुच्यते तद्वादी नयः अनर्पितनयः । सोऽपि समयप्रसिद्ध एव बोद्धव्यः । तन्मतं तु सामान्यमेवास्ति न विशेषः ।"-विशेषा० बृ० गा० ३५८८ । १. अशेषाणां सांव्यवहारिकप्रत्यक्षाणां मनःसाहाय्योत्पन्नत्वेऽपि यथा व्यवहारतः किञ्चिच्चाक्षुषम्, किञ्चित्स्पार्शनमित्यादि पृथग्व्यपदेशमश्नुते, तथैवाऽशेषाणां शब्दानां क्रियाप्रवृत्तिनिमित्तकत्वेऽपि व्यवहारतो जातिप्रवृत्तिनिमितकत्वादिव्यपदेशः ।