________________
२०८
सटीकजैनतर्कभाषायां ग्राहिण इति । अनर्पितविशेषितं सामान्यम्, तद्ग्राहिणः । ये पुनः सामान्यमेव प्राधान्येन गृह्णन्ति, ते नया अनर्पितनया इति व्यपदिश्यन्ते । एतेन सामान्यमात्रग्राही सङ्ग्रहोऽनर्पितनयः । नैगमश्च सामान्यांशं गृह्णन् अनर्पितनयः, विशेषमवगाहमानः चाऽर्पितनयः, व्यवहाराद्यास्तु विशेषमात्रग्राहिणोऽर्पितनया एवेति । अथवाऽपितानर्पितनयौ समयप्रसिद्धावेवाऽवगन्तव्याविति विवेकः।
तद्विभजनफलमुपदर्शयति
तत्राऽनर्पितनयमते तुल्यमेव रूपं सर्वेषां सिद्धानां भगवताम् । अर्पितनयमते त्वेकद्वित्र्यादिसमयसिद्धाः स्वसमानसमयसिद्धैरेव तुल्या इति ।
तत्र-अर्पितानर्पितनययोर्मध्ये । तुल्यमेवेति । विशेषो यतो न गृह्णाति नयोऽनर्पितः, ततः तन्मते सिद्धत्वं साधारणो धर्मः सर्वेषामविशिष्टमिति तुल्यरूपत्वमित्यर्थः । विशेषग्राह्यर्पितनयमते तु यावन्त एकसमयसिद्धा भगवन्तः, तेषामेकसमयसिद्धत्वं यद्यपि सामान्यम्, तथापि तद् द्विसमयादिसिद्धेषु न वर्तते इति भवति विशेषः । तेन तुल्यतैकसमयसिद्धानामेव भगवताम्, तदभावादेव द्विसमयादिसिद्धैः सह न तुल्यता । यावन्तश्च द्विसमयसिद्धा भगवन्तः, तेषां द्विसमयसिद्धत्वलक्षणेनैकसमयादिसिद्धव्यावृत्तेन धर्मेण तुल्यता, न तु स्वासमानसमयसिद्धैः समं तुल्यत्वम् । एवं त्रिसमयादिसिद्धेष्वपि बोध्यम् ।
व्यवहारनय-निश्चयनयाभ्यामपि नयस्य द्वैविध्यम् । तत्र व्यवहारनयमुपदर्शयति
तथा, लोकप्रसिद्धार्थानुवादपरो व्यवहारनयः, यथा-पञ्चस्वपि वर्णेषु भ्रमरे सत्सु श्यामो भ्रमर इति व्यपदेशः ।
व्यवहारनयमुदाहरति-यथेति । भ्रमरे पञ्चाऽपि वर्णाः शास्त्रे प्रतिपादिताः, तथापि लोका भ्रमरं श्याममेव व्यपदिशन्ति, तदनुसरणपरेण व्यवहारनयेनाऽपि 'श्यामो भ्रमर' इत्येव व्यपदिश्यते इत्यर्थः ।
निश्चयनयं प्ररूपयति
तात्त्विकार्थाभ्युपगमपरस्तु निश्चयः । स पुनर्मन्यते 'पञ्चवर्णो भ्रमरः'-बादरस्कन्धत्वेन तच्छरीरस्य पञ्चवर्णपुद्गलैर्निष्पन्नत्वात्, शुक्लादीनां च न्यग्भूतत्वेना___तथा लोकप्रसिद्धार्था०'-विशेषा० गा० ३५८९ । ।
१. चाक्षुषादिप्रत्यक्षयोग्यः स्थूलः पुद्गलसमूहो 'बादरस्कन्ध' इत्युच्यते । बादरस्कन्धेऽवश्यं पञ्च वर्णा भवन्ति
इति जैनसिद्धान्तः ।