________________
२०६
सटीकजैनतर्कभाषायां क्रियाशब्दत्वात्-गच्छतीति गौः, आशुगामित्वादश्व इति । शुक्लो नील इति गुणशब्दाभिमता अपि क्रियाशब्दा एव-शुचीभवनात् शुक्लो, नीलनाद् नील इति । देवदत्तो, यज्ञदत्त इति यदृच्छाशब्दाभिमता अपि क्रियाशब्दा एव-देव एनं देयात्, यज्ञ एनं देयादिति । संयोगिद्रव्यशब्दाः समवायिद्रव्यशब्दाश्चाऽभिमताः क्रियाशब्दा एवदण्डोऽस्याऽस्तीति दण्डी, विषाणमस्याऽस्तीति विषाणीत्यस्तिक्रियाप्रधानत्वात् । पञ्चतयी तु शब्दानां व्यवहारमात्रात्, न तु निश्चयादित्ययं नयः स्वीकुरुते ।
अक्रियाशब्दः क्रियाभिन्नशब्दः । अस्य एवम्भूतनयस्य, मते इति शेषः । तत्र गोत्वाश्वत्वादिजातिप्रवृत्तिनिमित्तकत्वेन जातिशब्दतयाऽभिमतानां गवादिशब्दानां क्रियाप्रवृत्तिनिमित्तकत्वेन क्रियाशब्दत्वं व्यवस्थापयति-गौरव इत्यादि ।
गुणप्रवृत्तिनिमित्तकत्वेन गुणशब्दत्वेनाऽभिमतानां शुक्लादिशब्दानां क्रियाप्रवृत्तिनिमित्तकत्वोपदर्शनेन क्रियाशब्दत्वमुपदर्शयति-शुक्लो नील इति ।
__प्रतिनियततत्तच्छब्दवाच्यतालक्षणोपाधिविशिष्टवाच्यकत्वेन पुरुषविशेषसङ्केतितत्वेन वाच्यताशब्देन (सम्बन्धेन) देवदत्तादिशब्दविशिष्टे देवदत्तादिशब्दानां शक्तिरिति तत्तच्छब्द[वाच्यता] लक्षणोपाधिप्रवृत्तिनिमित्तकतया यहच्छाशब्दतयाऽभिमतानां देवदत्तादिशब्दानां व्युत्पत्तिनिमित्तक्रियाप्रवृत्तिनिमित्तकत्वोपदर्शनेन क्रियाशब्दत्वं सङ्गमयति-देवदत्तो यज्ञदत्त
इति।
संयोगसम्बन्धेन द्रव्यविशेषविशिष्टवाचकतयाऽभिमतः संयोगिद्रव्यशब्दः । समवायसम्बन्धेन द्रव्यविशेषविशिष्टवाचकतयाऽभिमतः समवायिद्रव्यशब्द:-इत्येवमुभयविधस्याऽपि द्रव्यशब्दस्य क्रियाविशेषप्रवृत्तिनिमित्तकत्वेन क्रियाशब्दत्वमुपपादयति-संयोगीति । 'दण्डिन्'शब्दः-संयोगिद्रव्यशब्दः-दण्डपुरुषयोर्द्रव्ययोः संयोगसम्बन्धस्य भावात् । 'विषाणिन्' शब्द:समवायिद्रव्यशब्द:-विषाणस्याऽवयवत्वेन गवादेचाऽवयवित्वेनाऽवयवावयविनोः समवायसम्बन्धस्य भावात् । यद्यप्यवयवी अवयवे वर्त्तते, न त्ववयवोऽवयविनि, एवं च विषाणे समवायेन गवादेः सत्त्वम्, न तु गवादौ विषाणस्य, तथापि 'समवायेनाऽऽधेयत्वमपि समवाय एवेत्यभिप्रायः ।
जातिशब्दादिभेदेन शब्दे पञ्चविधत्वमननं च व्यवहारनयमाश्रित्य, ततश्च तत् कल्पितमेव, न तु वास्तविकमतेनाऽऽदरणीयमित्याह-पञ्चतयी त्विति । प्रवृत्तिरिति दृश्यम् ।
१. समवायसम्बन्धावच्छिन्न-आधेयतासम्बन्धोऽपि समवाय इत्युच्यते । अतो विषाणस्य समवायसम्बन्धा
वच्छिन्नाधेयतासम्बन्धेन गवि सत्त्वे, समवायेन विषाणी गौरित्यपि वक्तुं शक्यते एव ।