________________
नयविशेषनिरूपणम्
२०५
एवम्भूत इति लक्ष्यम् । अभ्युपगच्छन्नित्यनन्तरम् अभिप्रायविशेष इति दृश्यम् । उदाहरतियथेति । इन्दनम्-ऐश्वर्यम् ।
समभिरूढनयोऽपि व्युत्पत्तिभेदनिमित्तकसंज्ञाभेदतोऽर्थभेदमभ्युपगच्छति, एवम्भूतोऽपि तथेति किंकृतोऽनयोर्भेद इत्यपेक्षायामाह -
समभिरूढनयो हीन्दनादिक्रियायां सत्यामसत्यां च वासवादेरर्थस्येन्द्रादिव्यपदेशमभिप्रैति-क्रियोपलक्षितसामान्यस्यैव प्रवृत्तिनिमित्तत्वात् - पशुविशेषस्य गमनक्रियायां सत्यामसत्यां च गोव्यपदेशवत्, तथारूढेः सद्भावात् । एवम्भूतः पुनरिन्दनादिक्रियापरिणतमर्थं तत्क्रियाकाले इन्द्रादिव्यपदेशभाजमभिमन्यते ।
समभिरूढनयो हीति । यदैश्वर्याद्यनुभवति वासवादिर्यदा च नाऽनुभवति, उभयकालेऽपि तत्रेन्दादिशब्दव्यपदेश्यत्वं समभिरूढनयो यतः स्वीकरोतीत्यर्थः । इन्दनादिक्रियाऽभावकाले व्युत्पत्तिनिमित्तभूताया इन्दनादिक्रियाया अभावात् कथं तत्रेन्द्रादिशब्दप्रवृत्तिरित्यपेक्षायामाह -क्रियोपलक्षितेति । यदा कदाचिदिन्दनादिक्रियाया अधिकरणे वर्त्तमानं यद् वासवत्वादिलक्षणं सामान्यम्, तस्यैव इन्द्रादिशब्दप्रवृत्तौ निमित्तत्वेन तस्येन्दनादिक्रियाशून्यकालेऽपि वासवादौ सत्त्वेन तद्बलादिन्द्रादिव्यपदेशस्य सम्भवादित्यर्थः । दृश्यते च व्युत्पत्तिनिमित्तक्रियाया अभावदशायामपि तत्समानाधिकरणसामान्यविशेषलक्षणप्रवृत्तिनिमित्तबलात् ' शब्दव्यपदेश्यत्वमिति नाऽदृष्टचरीयं कल्पनेत्याह-पश्विति । पशुविशेषस्य - गवात्मकपशोः । कथं तत्रापि गमनक्रियाविरहकाले गोशब्दव्यपदेश इत्याकाङ्क्षायामाह - तथारूढेरिति । गोशब्दस्य गोत्वावच्छिन्ने शक्तिरेव रूढिः, अवयवशक्तिर्योगः, समुदायशक्ती रूढिः, तस्याः सद्भावादित्यर्थः ।
इत्थं समभिरूढाभिमतमुपदर्श्य तत्त्वार्थे एवम्भूताभिमन्तव्यमुपदर्शयति- एवम्भूत इति । तत्क्रियाकाले-ऐश्वर्याद्यनुभवकाले एव । अभिमन्यते - स्वीकरोति । यदैव यन्नामव्युत्पत्तिनिमित्तक्रिया यत्र वर्तते तदैव तत्र तन्नाम्ना व्यपदेशो, नाऽन्यदाऽपीत्येवमेवम्भूतनयः स्वीकरोतीत्यर्थः ।
नन्वेवं व्युत्पत्तिनिमित्तक्रियाया एव प्रवृत्तिनिमित्तत्वाभ्युपगमे जातिशब्द-गुणशब्दक्रियाशब्द- याहगिच्छिकशब्द- द्रव्यशब्द इत्येवं पञ्चप्रकारत्वं नाम्नां भज्येत सर्वेषां क्रियाशब्दत्वस्यैव प्राप्तेरिति चेद्: अत्रेष्टापत्तिरेवाऽस्माकमित्याह
न हि कश्चिदक्रियाशब्दो ऽस्याऽस्ति । गौरश्व इत्यादिजातिशब्दाभिमतानामपि
I
१. गच्छतीति गौरितिव्युत्पत्तिनिमित्तसमानाधिकरणकं प्रवृत्तिनिमित्तं सामान्यविशेषात्मकं गोत्वम् ।