________________
सटीकजैनतर्कभाषायां
समभिरोहन् इत्यन्तं लक्षणम्, समभिरूढ इति लक्ष्यम् । एकप्रवृत्तिका विभिन्नानुपूर्वीसङ्घटितवर्णसमुदायलक्षणाः शब्दाः पर्यायशब्दाः यथा घटकुटकुम्भकलसादयः । तेषु निरुक्तिभेदेन= घटते=चेष्टते इति घटः, कुटति = कौटिल्यमनुभवतीति कुट:, कु: - पृथिवी, तां भासयतीति कुम्भ; कं=जलं लसति यत्र स कलस इत्येवं व्युत्पत्तिभेदेन । भिन्नं पृथग्, अर्थं=वाच्यम्, समभिरोहन् - प्रतिपादयन् अध्यवसायविशेषः समभिरूढनय इत्यर्थः ।
=
शब्दनयात् पूर्वमभिहितात् सम्प्रत्येत्य (? साम्प्रतेत्य) पराभिधानात् समभिरूढस्य भेदं
२०४
स्पष्टयति
शब्दयो हि पर्यायभेदेऽप्यर्थाभेदमभिप्रैति, समभिरूढस्तु पर्यायभेदे भिन्नानर्थानभिमन्यते, अभेदं त्वर्थगतं पर्यायशब्दानामुपेक्षते इति ।
हि-यतः, शब्दनयः=साम्प्रतनयः, पर्यायभेदेऽपि = एकस्य घटरूपार्थस्य घटकुटकुम्भादिनामभेदेऽपि, अर्थाभेदं = घटरूपार्थस्यैक्यम्, अभिप्रैति = इच्छति । समभिरूढस्तु = समभिरूढाख्यनयः पुनः, पर्यायभेदे = नाम्नां भेदे, अर्थान् -संज्ञिनः, भिन्नान् घटवाच्यात् कुटवाच्यो भिन्नः, कुटवाच्यात् कुम्भवाच्यो भिन्न- इत्येवं नानाभूतान्, अभिमन्यते = स्वीकुरुते । समभिरूढाभासाद् व्यवच्छित्तये आह- अभेदमिति । पर्यायशब्दानामर्थगताभेदं तूपेक्षते । न प्रतिक्षिपति, किन्तु तत्र गजनिमीलिकामवलम्बते इत्युपेक्षते इत्यस्यार्थः ।
उदाहरति
यथा इन्दनादिन्द्रः, शकनात् शक्रः, पूर्वारणात् पुरन्दर इत्यादि । इन्दनात्-देवाधिपत्यादिलक्षणैश्वर्यात्, शकनात् = वृत्रादिशत्रूणां मारणे सामर्थ्यात्, पूर्दारणात् शत्रुपुरादिविध्वंसनात् ।
पर्यायनयस्य तुरीयभेदमेवम्भूतनयं लक्षयति
शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियाविष्टमर्थं वाच्यत्वेनाऽभ्युपगच्छन् एवम्भूतः । यथेन्दनमनुभवन् इन्द्रः ।
एतन्मते सर्वेषां शब्दानां क्रियाशब्दत्वाद् व्युत्पत्तिनिमित्तक्रियैव प्रवृत्तिनिमित्तमित्यभिसन्धाय स्वप्रवृत्तिनिमित्तभूतेत्युक्तम् । अत्र स्वप्रवृत्तिनिमित्तभूतेत्यादि लक्षणम्,
१. समानं प्रवृत्तिनिमित्तं येषां ते एकप्रवृत्तिकाः । घटशब्दस्य पृथुबुध्नोदरादिमत्पदार्थे प्रवृत्तेर्निमित्तं घटत्वम्, कुटस्य कुटत्वम्, कलसस्य कलसत्वम् । एवं सति तेषां प्रवृत्तिनिमित्तानामैक्यं कथम् ? इदमत्र विचारणीयम्-वस्तुतस्तु तत्र प्रवृत्तिनिमित्तं पृथुबुध्नोदरकम्बुग्रीवादिमत्त्वरूपस्वरूपमेव । तच्च कथं निर्देश्यम् ? शब्दान्तराभावाद् घटत्वादिशब्दैरेव तद् निर्देश्यं भवति । तच्चैकमेवेति ।