________________
२०३
नयविशेषनिरूपणम् उक्तं पर्यायमात्रमिति । पर्यायमात्रप्रदर्शनं तदाभासेऽपि समस्तीत्यतः प्राधान्येनेति । प्रधानतया पर्यायमात्रस्य प्रदर्शनं तदैव भवेत्, तदाधारस्याऽऽत्मद्रव्यस्य गौणतयाऽवगाहनलक्षणमर्पितत्वं भवेदतः तदुपदर्शयति-तदधिकरणभूतमिति ।
पर्यायार्थिकस्य प्रथमभेदमृजुसूत्रं लक्षयित्वा द्वितीयभेदं शब्दनयं लक्षयतिकालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः ।
क्षणमात्रस्थायित्वमर्थस्य पर्यायार्थिकनयभेदचतुष्टयेऽपि साधारणम्, ऋजुसूत्रात् परं शब्दनये कालादिभेदेन शब्दस्य भिन्नार्थत्वं विशेषः, ऋजुसूत्रनयो हि कालादिभेदेऽपि शब्दस्य वाच्यभेदं नेच्छतीति । ध्वनेः-शब्दस्य, अर्थभेदं-वाच्यभेदम्, प्रतिपद्यमानः स्वीकुर्वाणः, अभिप्राय इति दृश्यम्-एतावद् लक्षणम्, शब्द:=शब्दनय इति लक्ष्यम् । ___ कालादिभेदेनेत्युक्तम्, तत्र के कालादय इति जिज्ञासायामाह
कालकारकलिङ्गसङ्ख्यापुरुषोपसर्गाः कालादयः । तत्र बभूव भवति भविष्यति सुमेरुरित्यत्राऽतीतादिकालभेदेन सुमेरोर्भेदप्रतिपत्तिः, करोति क्रियते कुम्भ' इत्यादौ कारकभेदेन, तट: तटी तटमित्यादौ लिङ्गभेदेन, दाराः कलत्रमित्यादौ सङ्ख्याभेदेन, यास्यसि त्वं यास्यति भवानित्यादौ पुरुषभेदेन, सन्तिष्ठते अवतिष्ठते इत्यादावुपसर्गभेदेन ।
तत्र-कालादिभेदेषु मध्ये । कालभेदेनाऽर्थभेदमुदाहरति-बभूवेति । कारकभेदेनाऽर्थभेदमुदाहरति-करोतीति । कारकभेदेनेत्यनन्तरं कुम्भस्य भेदप्रतिपत्तिरिति दृश्यम् । लिङ्गभेदेन ध्वनेरर्थभेदमुदाहरति-तट इति । लिङ्गभेदेनेत्यनन्तरं तटस्य भेदप्रतिपत्तिरिति दृश्यम् । सङ्ख्याभेदेन ध्वनेरर्थभेदमुदाहरति-दारा इति । सङ्ख्याभेदेनेत्यनन्तरं स्त्रीरूपार्थस्य भेदप्रतिपत्तिरिति दृश्यम् । पुरुषभेदेनाऽर्थभेदमुदाहरति-यास्यसीति । यास्यसीति सम्बोध्ये मध्यमपुरुषे प्रयुज्यते, यास्यतीति अन्यपुरुषे स्वसम्बोध्यभिन्ने उत्तममध्यमभिन्ने तृतीयपुरुषे प्रयुज्यते इति पुरुषभेदः । पुरुषभेदेनेत्यनन्तरमेकस्याऽपि. भविष्यत्कालीनप्रयाणकर्तुरर्थस्य भेदप्रतिपत्तिरिति दृश्यम् । उपसर्गभेदमुदाहरति-सन्तिष्ठते इति । उपसर्गभेदेनेत्यनन्तरमेकधात्वर्थस्याऽपि भेदप्रतिपत्तिरिति दृश्यम् । --- --------
ऋजुसूत्राभिमतस्य क्षणिकस्यैकस्याऽर्थस्य कालकारकलिङ्गाद्यवाप्तभेदकशब्दभेदेनाऽर्थभेदमुररीकुर्वाणं शब्दनयं लक्षयित्वा पर्यायार्थिकस्य तृतीयभेदं समभिरूढनयं लक्षयति
पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थं समभिरोहन् समभिरूढः । १. करोति कुम्भः (जलधारणादि), क्रियते कुम्भः (कुम्भकारेण) इत्येवमत्र वाक्यद्वयम् ।